SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ व्यवहारसूत्रे भाष्यम् – 'जे भिक्खू' इति । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'चाउम्मासियं वा' चातुर्मासिकं वा साइरेगचाउम्मासियं वा' सातिरेकचातुर्मासिकं वा, मासे अतिरेकता आधिक्यं दिवसादिभिः क्वचित् पञ्चरात्रिन्दिवैः, क्वचित् दशरात्रिन्दिवैः, क्वचित् पक्षेण, विंशतिदिनैः, पंचविंशतिदिवसात्मकभिन्नमासैर्वा भवति । पंचमासिय वा' पाञ्च मासिकं वा 'साइरेगपंचमासियं वा' सातिरेकपाञ्चमासिकं वा, अत्राऽपि सातिरेकता पञ्चदिनादारम्य भिन्नमा सात्मिकैव ज्ञातव्या । 'एएसिं' एतेषां चातुर्मासिक-सातिरेक चातुर्मासिक- पाञ्चमासिक - सातिरेक पाञ्च मासिकानाम् 'परिहारहाणा' परिहारस्थानानां पापस्थानानां मध्ये 'अन्नयरं परिहारद्वाणं पडिसेवित्ता' अन्यतरत् एतेषु यत् किमप्येकं परिहारस्थानं प्रतिसेव्य यदि 'आलोएज्जा' आलोचयेत् पापापनोदनाय आचार्यसमीपे प्रकाशयेत्, तत्र - 'अपलिउंचिय आलोएमाणस्स' अप्रतिकुञ्च्य मायामकृत्वा निष्कपटो भूत्वेत्यर्थः आलोचयेत् आलोचनां कुर्यात् तदा तस्य तथाविधस्य प्रतिसेवकस्य 'चाउ - म्मासियं वा' चातुर्मासिकं वा यत्प्रतिसेवितं तदेव 'साइरेगचाउम्मा सियं वा' सातिरेकचातुर्मासिकं वा पञ्चदिवसाद्यधिकं चातुर्मासिकं प्रायश्चित्तं दद्यात् । 'पंचमासियं वा' पाश्चमासिकं प्रायश्चित्तं यावन्मात्रं प्रतिसेवितं तावन्मात्रमेव, 'साइरेगपंचमासियं वा' सातिरेकपाचमासिकं वा पञ्च दिवसाद्यधिकं पाश्च मासिकं प्रायश्चित्तं दद्यात् । 'पलिउंचिय आलोएमाणस्स' प्रतिकुञ्च्य कपटं कृत्वा आलोचयतः प्रतिसेवकस्य 'पंचमासियं वा' चातुर्मासिकपरिहारस्थानसेवने पाञ्चमासिकं प्रायश्चित्तं दातव्यम्, तत्र च चातुर्मासिकस्य प्रतिसेवनानिमित्तत्वात् मासाधिक्यस्य च मायापराधजनितत्वात् । 'साइरेगपं त्रमा सियं वा सातिरेकपाञ्च मासिकं वा, सातिरेकचातुर्मासिकपापस्थाने सेविते सति सातिरेक पाञ्चमासिकं प्रायश्चित्तं दातव्यमित्यर्थः । 'छम्मासिय वा' षाण्मासिकं वा पाञ्चमासिकसातिरेक पाश्चमासिकपापस्थानप्रतिसेवकस्य सकपटमालोचयतस्तस्य षाण्मासिकं प्रायश्चित्तं दातव्यमित्यर्थः । ' तेण परं तेन ततः तस्मात् षाण्मासिकात् परिहारस्थानात् परं परस्मिन् सप्ताष्टादिके परिहारस्थाने प्रतिसेविते प्रतिसेवकस्य 'पलिउंचिए वा अपलिउंचिए वा' प्रतिकुञ्चिते सकपटे, अप्रतिकुञ्चिते निष्कपटे वा प्रतिसेवके 'ते चेव छम्मासा' एव षण्मासा एतदधिकप्रायश्चित्तस्य विधानाभावात् ॥ सू० १५ ॥ ૪ सूत्रम् - जे भिक्खू बहुसोवि चाउम्मासियं वा, बहुसोवि साइरेगचाउम्मासियं वा बहुसोव पंचमासि वा बहुसोवि साइरेगपंचमा सियं वा, एएसिं परिहारद्वाणाणं अन्नयरं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अपलिउंचिय आलोएमाणस्स चाउम्मासियं वा साइरेगचाउम्मासियं वा पंचमासियं वा साइरेगपंचमासियं वा, पलिउंचिय आलोएमाणस्स पंचमासियं वा साइरेगपंचमासियं वा छम्मासियं वा तेण परं पलिउंचिए वा अपलिउंचिए वा ते चैव छम्मासा ॥ सू० १६ ॥
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy