SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ० १ सू० १४-१५ परिहारस्थानसेविनः प्रायश्चित्तविधिः १३ ___भाज्यम् - 'जे भिक्खू' इति । 'जे भिक्खू' यः कश्चिद् भिक्षुः साधुः साध्वी वा 'बहुसो वे' बहुशोऽपि 'मासियं वा' मासिकं वा 'बहुसोवि' बहुशोऽपि 'दोमासियं वा' द्वैमासिकं व 'बहुसोवि' बहुशोऽपि 'ते मासियं वा' त्रैमासिकं वा 'बहुसोवि' बहुशोऽपि 'चाउम्मासियं वा' चातुर्मासिकं वा 'बहुसोवि' बहुशोऽपि 'पंचमासियं वा' पाश्चमासिकं वा, 'एएसि परिहारहाणाणं' एतेषां मासिकादीनां परिहारस्थानानाम् 'अन्नयरं परिहारट्ठाणं पडिसेवित्ता' अन्यतरत् क्रमशः एकं, द्विकं, त्रिकं, चतुष्कं, पञ्चकं वा परिहारस्थानं प्रतिसेव्य 'आलोएज्जा' आलोचयेत् 'अपलिउंचिय आलोएमाणस्स' अप्रतिकुच्य आलोचयतः मायामकृत्वाऽऽलोचनां कुर्वतः 'मासियं वा' क्रमशः मासिकं वा, अत्र वा शब्दः सर्वत्र विकल्पार्थः । 'दोमासियं वा' द्वैमासिकं वा 'तेमासियं वा' त्रैमासिकं वा 'चाउम्मासियं वा' चातु सिकं वा 'पंचमासियं वा' पाञ्चमासिकं वा प्रायश्चित्तम् । 'पलिउंचिय आलोएमाणस्स' प्रति कुञ्च्याले चयतः मायां कृत्वाऽऽलोचनां कुर्वतः सर्वत्राऽऽपन्नप्रायश्चित्तापेक्षयाऽधिको मायानिष्पन्नो लघुमासो गुरुमासो वा दीयते इति । कथमित्याह-मासिकपापस्थानसेवकस्य 'दोमासियं वा' द्वैमासिक वा, द्विमास प्रायश्चित्तयोग्यपापस्थानसेवकस्य 'तेमासियं वा' त्रैमासिकं वा, एवं क्रमेण “चाउम्मासियं वा' चातुर्मासिकं वा 'पंचमासियं वा' पाश्चमासिकं वा 'छम्मासियं वा' मासिकं वा प्रायश्चित्तं दद्यात् 'तेण परं' ततः परं पाञ्चमासिकात् परिहारस्थानात् परं पाण्मासिकादिपरिहारस्थानप्रतिसेवकस्य 'पलिउचिए वा अपलिउचिए वा' प्रतिकुञ्चिते वा अतिकुञ्चिते वा सति मायापूर्वकं वा मायारहितं वा कृतायामालोचनायाम् 'ते चेव छम्मासा' त एव षण्मासाः । तत् ऊर्ध्वम्-अस्मिन् भगवतो वर्द्धमानस्वामिनस्तीर्थे आरोपणाया असद्भावात्, इति पूर्वमुक्तमेवेति ॥ सू० १४ ॥ सूत्रम्-जे भिक्खू चाउम्मासियं वा साइरेगचाउम्मासियं वा, पंचमासिय वा साइरेगपंचमासियं वा, एएसि परिहारहाणाणं अन्नयरं परिहारहाणं पडिसेवित्ता. आलोएज्जा, अपलिउंचिय आलोएमाणस्स चाउम्मासियं वा साइरेगचाउम्मासियं वा पंचमासियं वा साइरेगपंचमासियं वा, पलिउंचिय आलोएमाणस्स पंचमासियं वा साइरेगपंचमासिग वा छम्मासियं वा, तेण परं पलिउंचिए वा अपलिउंचिए वा ते चेव छम्मासा ॥ मू०१५॥ ___छाया “ यो भिक्षुश्चातुर्मासिकं वा सातिरेकचातुर्मासिकं वा, पाञ्चमासिकं वा सातिरेकपाञ्चमासिकं चा, एतेषां परिहारस्थानानां अन्यतरत् परिहारस्थानं प्रतिसेव्य आलोचयेत् , अप्रतिकुच्य आलोचयतः चातुर्मासिकं वा सातिरेकचातुर्मासिकं वा, पाञ्चमासिकं वा सातिरेकपाञ्चमासिकं वा, प्रतिकुञ्च्य आलोचयतः पाञ्चमासिकं वा सातिरेकपाञ्चमानिकं वा, पाण्मासिकं वा, तेन परं प्रतिकुञ्चिते वा अप्रतिकुञ्चिते वा ते एव षण्मासाः॥सू०१५॥
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy