SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ व्यवहारसूत्रे पाण्मासिकं वा पाञ्चमासिकप्रायश्चित्तस्थाने मायापराधजनितं पाण्मासिकं प्रायश्चित्तमेकमासाधिकं दद्यात् । मायापराधनिमित्तत्वेन हेतुना सर्वत्र मासाधिक्यं दद्यात् ।। ___ यथा-यदि मासिकं पापस्थानं सेवितं सकपटं चालोचयितुमाचार्यसमीपे स्थितस्तस्मै द्वैमासिकं लघुकं गुरुकं वा प्रतिसेवनानुसारि प्रायश्चित्तं गुरुर्दद्यात् । यदि वा द्वैमासिकं परिहारस्थानं प्रतिसेव्य सकपटमालोचयितुमुपस्थितो भवति, तदा तस्मै त्रैमासिकं दद्यात् । यदि वा त्रैमासिकं परिहारस्थानमासेवितं सकपटं चालोचयितुमुपस्थितः तदा तस्मै चातुर्मासिक दद्यात् । चातुर्मासिकं प्रतिसेवितं तस्मै पाञ्चमासिकं प्रायश्चित्तं दद्यात्। पाञ्चमासिकं पापस्थानं सेवितं मायापूर्वकमालोचयितुमुपस्थितस्तस्मै पाण्मासिकं प्रायश्चित्तं दद्यात् । एवं क्रमश एकैकमासस्याधिकं प्रतिकुञ्चनानिमित्तकं प्रायश्चित्तं दद्यात् , इति । तेण परं' ततः परम् , ततः पाञ्चमासिकात् परिहारस्थानादूचं पाण्मासिकादिपाफ्स्थानप्रतिसेवक आलोचनाकाले 'पलिउंचिए अपलिउंचिए वा' प्रतिकुञ्चिते वा अप्रतिकुञ्चिते वा मायापूर्वकं मायारहितं वा मालोचिते 'ते चेव छम्मासा' त एव प्रतिसेवनानिष्पन्नाः स्थिताः षण्मासाः, नाधिकं प्रतिकुञ्चनानिमित्तं प्रायश्चित्तम् , वर्द्धमानस्वामिशासने एतादृशस्यैव जीतकल्पस्य विधानात् , अन्यान्यतीर्थकरशासने न्यूनाधिकमपि प्रायश्चित्तं भवति, यथा ऋषमतीर्थकरस्य द्वादश मासाः, वर्द्धमानस्वामिनः षण्मासाः। शेषाणां द्वाविंशतितीर्थकराणां तीर्थे अष्टौ मासा इति । इदानीं तु वर्द्धमानस्वामिनः शासनम् , तस्य तूत्कृष्टं तपः पाण्मासिकमेव, ततोऽस्य तीर्थे सर्वोत्कृष्टमपि प्रायश्चित्तदानं षण्मासा एवेति षाण्मासिकपरिहारस्थानं प्रतिसेव्य प्रतिकुञ्चनयाऽऽलोचयतोऽपि नाधिकमारोपणम् , अतस्त एव षण्मासाः प्रोक्ता इति ॥ सू० १३ ॥ सूत्रम्-जे भिक्खू बहुसोवि मासियं वा बहुसोवि दोमासियं वा, बहुसोवि तेमासियं वा, बहुसोवि चाउम्मासियं वा, बहुसोवि पंचमासियं वा, एएसि परिहारहाणाणं अन्नयरं परिहारहाणं पडिसेवित्ता आलोएज्जा, अपलिउंचिय आलोएमाणस्स मासियं वा, दोमासियं वा, तेमासियं वा, चाउम्मासियं वा, पंचमासियं वा, पलिउंचिय आलोएमाणस्स दोमासियं वा, तेमासियं वा, चाउम्मासियं वा, पंचमासियं वा, छम्मासिय वा, तेण परं पलिउंचिए वा, अपलिउंचिए वा, ते चेव छम्मासाः॥ सू०१४ ॥ ___ छाया-यो भिक्षुर्बहुशोऽपि मासिकं वा, बहुशोऽपि द्वैमासिकं वा, बहुशोऽपि त्रैमासिकं वा, बहुशोऽपि चातुर्मासिक वा, बहुशोऽपि पाञ्चमासिकं वा, एतेषां परिहारस्थानानामन्यतरत् परिहारस्थानं प्रतिसेव्य आलोचयेत् , अप्रतिकुच्य आलोचयतः मासिकं वा, द्वैमासिकं वा, त्रैमासिकं वा, चातुर्मासिकं वा, पाञ्चमासिकं वा, पाण्मासिकं वा, तेन परं प्रतिकुञ्चिते वा, अप्रतिकुञ्चिते वा, त एव षण्मासाः ॥ सू० १४ ॥
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy