SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ० १ सू० १३ परिहारस्थानसेविनः प्रायश्चित्तविधिः १६ चाउम्मासियं वा पंचमासियं वा छम्मासियं वा; तेण परं पलिउंचिए वा अपलिउंचिए वा ते चेव छम्मासा ॥ सू० १३॥ छाया-यो भिक्षुर्मासिकं वा, द्वैमासिकं वा, त्रैमासिकं वा, चातुर्मासिकं वा, पाञ्चमासिकं वा, एतेषां परिहारस्थानानामन्यतरत् परिहारस्थानं प्रतिसेव्य आलोचयेत्, अप्रतिकुञ्च्य आलोचयतः मासिकं वा, द्वैमासिकं वा, त्रैमासिकं वा, चातुर्मासिकं वा, पाञ्चमासिकं वा पाण्मासिकं वा, ततः परं प्रतिकुञ्चिते वा अप्रतिकुञ्चिते वा, त एव षण्मासाः ॥ सू०१३ ॥ भाष्यम् – 'जे भिक्खू मासियं' इति । 'जे भिक्खू' यो भिक्षुः साधुः साध्वी वा 'मासियं वा' मासिकं मासेन निर्वर्तनयोग्यं वा 'दोमासियं वा' द्वैमासिकं मात्रद्वयेन निर्वत्तनयोग्यं वा 'तेमासियं वा' त्रैमासिकं मासत्रयेण संपादनयोग्यं वा 'चाउम्मासियं वा' चातुर्मासिकं मासचतुष्टयेन संपादनयोग्यं वा 'पंचमासियं वा' पाश्चमासिकं मासपञ्चकेन संपादनयोग्यं वा 'एएसि' एतेषाम् मासिकादारभ्य पाश्चमासिकपर्यन्तानाम् 'परिहारद्वाणाणं' परिहारस्थानानाम् 'अन्नयरं' अन्यतरत् किञ्चिदेकम् एकमासिकं वा द्वैमासिकं वा, त्रैमासिकं वा, चातुर्मासिकं वा, पाञ्चमासिकं वा 'परिहारहाणं' परिहारस्थानं प्रायश्चित्तस्थानम् 'पडिसेवित्ता' प्रतिसेव्य कस्यचिद् एकतरस्य पापस्थानस्य प्रतिसेवनां कृत्वा 'आलोएज्जा' आलोचयेत् , स्वकीयं परिहारस्थानं आचार्यसमीपे प्रकाशयेत् । तत्र-'अपलिउंचिय आलोएमाणस्स' अप्रतिकुञ्च्यालोचयतः कपटमकृत्वा आलोचनाविधि संपादयतः साधोः क्रमशः मासियं वा' मासिकं वा एकमासनिष्पाद्यम् 'दोमासियं वा' द्वैमासिकं वा मासद्वयसंपादनयोग्यम् 'तेमासियं वा' त्रैमासिकं वा मासत्रयवहनयोग्यं 'चाउम्मासियं वा' चातुर्मासिकं वा मासचतुष्टयनिष्पादनयोग्य 'पंचमासियं वा' पाश्चमासिकं वा मासपञ्चकनिष्पादनीयं लघुकं गुरुकं वा प्रायश्चित्तं प्रतिसेवनानुसारि गुरुराचार्यों वा दद्यात् , शुद्धनिष्कपटभावेनोपस्थितत्वात् , 'पलिउंचिय आलोएमाणस्स' प्रतिकुच्य आलोचयतः मायापूर्वकमाचार्यसमीपे पापस्थानं प्रकाशयतः मायापराधनिमित्तं मासिकस्थाने द्वैमासिकं मासद्वयवहनयोग्यं लघुकं गुरुकं वा प्रायश्चित्तं प्रतिसेवनानुसारि दद्यात् । 'तेमासिथं' त्रैमासिकं प्रायश्चितं द्वैमासिकपापस्थाने लघुकं गुरुकं वा प्रतिसेवनानुसारिदद्यात् । 'चाउम्मासियं वा' चातुर्मासिकं वा त्रैमासिकपापस्थाने लघुकं गुरुकं वा प्रतिसेवनानुसारि दद्यात् । 'पंचमासियं वा' पाञ्चमासिकं वा प्रायश्चित्तं चातुर्मासिकप्रायश्चित्तस्थाने लघुकं गुरुकं वा प्रतिसेवनानुसारि दद्यात् 'छम्मासियं वा'
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy