SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ १० व्यवहारसूत्र परिहारस्थानं पापप्रयोजकसावधकर्मानुष्ठानम् 'पडिसेवित्ता' प्रतिसेव्य 'आलोएज्जा' आलोचयेत् आलोचनां कुर्यात् , 'अपलिउंचिय' अप्रतिकुञ्च्य, प्रतिकुञ्चना माया तामकृत्वा 'आलोएमाणस्स' आलोचयतः 'चाउम्मासियं' चातुर्मासिकं प्रायश्चित्तं मासचतुष्टयेन संपादनयोग्यं प्रायश्चित्तं दीयते, 'पलिउंचिय' प्रतिकुञ्च्य मायां कृत्वा 'आलोएमाणस्स' आलोचयतः 'पंचमासियं' पाश्चमासिकम् , मासपञ्चकेन संपादनयोग्यं प्रायश्चित्तम् , अप्रतिकुञ्च्यालोचयतश्चातुर्मासिकं प्रायश्चित्तम् । प्रतिकुञ्च्यालोचयतः पश्चमो मायानिष्पन्नो गुरुमासो दीयते ॥ सू० १० ॥ सूत्रम्-जे भिक्ख बहुसोवि पंचमासियं परिहारहाणं पडिसेवित्ता आलोएज्जा। अपलिउंचिय आलोएमाणस्स पंचमासियं पलिउंचिय आलोएमाणस्स छम्मासियं ॥ सू० ११॥ छाया-यो भिक्षुर्बहुशोऽपि पाञ्चमासिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् । अप्रतिकुच्य आलोचयतः पाञ्चमासिकं, प्रतिकुच्य आलोचयतः पाण्मासिकम् ॥ सू० ११ ॥ भाष्यम्-'जे भिक्खू' इति । 'जे भिक्खू' यो भिक्षुः 'बहुसोवि' बहुशोऽपि पश्चषड्वारान् बहून् वा 'परिहारहाणं' परिहारस्थानं पापस्थानं 'पडिसेवित्ता' प्रतिसेव्य 'आलोएज्जा' आलोचयेत् तस्यालोचनासमये 'अपलिउंचिय आलोएमाणस्स' अप्रतिकुच्य प्रतिकुञ्चनामकृत्वा, आलोचयतः 'पंचमासियं' पांचमासिकं मासपंचकेन संपादनयोग्यं प्रायश्चित्तं दद्यात् 'पलिउंचिय' प्रतिकुञ्च्य प्रतिकुञ्चना माया, तां पुरस्कृत्य आलोचयतस्तु 'छम्मासिय पाण्मासिकं मासषट्केन संपादनयोग्यं प्रायश्चित्तम् । अप्रतिकुञ्च्यालोचयतः पांचमासिकम्, प्रतिकुञ्च्यालोचयतः षष्ठो मायानिष्पन्नो गुरुमासो दीयते ॥ सू० ११ ॥ सूत्रम्-तेण परं पलिउंचिए वा अपलिउंचिए वा, ते चेव छम्मासा ॥सू० १२॥ छाया-ततः परं प्रतिकुञ्चिते वा अप्रतिकुञ्चिते वा त एव षण्मासाः ॥ सू०१२॥ भाष्यम्-'तेण परं' इति । 'तेण परं' ततः परं पाण्मासिकादिपरिहारस्थाने प्रतिसेवितेऽपि आलोचनाकाले 'पलिउंचिए अपलिउंचिए वा' प्रतिकुञ्चिते अप्रतिकुञ्चते वा, प्रति कुञ्चतया वा, अप्रतिकुञ्चतया वा आलोचिते 'ते चेव' ते एव प्रतिसेवनानिष्पन्नाः स्थिताः 'छम्मासा' षण्मासाः, नाधिकं प्रतिकुञ्चनानिमित्तम्-आरोपणम् एतादृशजीतकल्पत्वात् , महावीरशासने पाण्मासिकस्यैव प्रायश्चित्तस्य विधानात् ॥ सू० १२ ॥ ___सूत्रम्-जे भिक्खू मासियं वा, दोमासियं वा, तेमासियं वा, चाउम्मासियं वा, पंचमासियं वा, एएसिं परिहारट्ठाणाणं अन्नयरं परिहारहाणं पडिसेवित्ता आलोएज्जा अपलिउंचिय आलोएमाणस्स मासियं वा दोमासियं वा तेमासियं वा चाउम्मासियं वा पंचमासियं वा, पलिइंचिय आलोएमाणस्स दोमासियं वा तेमासियं वा
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy