________________
भाष्यम् उ० १ सू० ८-१२ ।
परिहारस्थानसविनः प्रायश्चित्तविधिः ९ सूत्रम्-जे भिक्खू बहुसोवि दोमासियं परिहारहाणं पडिसेवित्ता आलोएज्जा। अपलिउंचिय आलोएमाणस्स दोमासियं, पलिउचिय आलोएमाणस्स तेमासियं ।। सू० ८॥
छाया- यो भिक्षुबहुशोऽपि द्वैमासिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् । अप्रतिकुञ्च्य आलोचयतः द्वैमासिकं, प्रतिकुच्य आलोचयतः त्रैमासिकम् ॥ सू० ८ ॥
भाष्यम्--'जे भिक्खु' इति । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'बहुसोवि' बहुशोपि त्रि-चतुः-पञ्च-वारानपि 'दोमासिय द्वैमासिकं मासद्वयेन संपादनयोग्यम् । 'परिहारहाणं' परिहारस्थानं पापं पापप्रयोजकसावद्यकर्मानुष्ठानम् 'पडिसेवित्ता' प्रतिसेव्य, तस्य प्रतिसेवनां कृत्वा 'आलोएज्जा' आलोचयेत् आलोचनां प्रायश्चित्तविधि संपादयेत् । तस्य 'अपलिउंचिय आलोएमाणस्स' अप्रतिकुञ्च्य मायामकृत्वा विशुद्धान्तःकरणेनालोचयतः 'दोमासियं द्वैमासिकं मासद्वयेन निर्वर्तनीयं 'पलिउंचिय आलोएमाणस्स' प्रतिकुञ्च्य मायापूर्वकमालोचयतः 'तेमासिय' त्रैमासिकं प्रतिकुञ्च्यालोचयतो मायानिष्पन्नस्तृतीयो गुरुमासो दीयते ॥ सू० ८ ॥
सूत्रम्--जे भिक्खू बहुशोवि तेमासियं परिहारहाणं पडिसेवित्ता आलोएज्जा । अपलिउंचिय आलोएमाणस्स तेमासियं, पलिउंचिय आलोएमाणस्स चाउम्मासियं ॥सू०९॥
छाया--यो भिक्षुर्बहुशोऽपि त्रैमासिक परिहारस्थानं प्रतिसेव्य आलोचयेत् । अप्रतिकुच्य आलोचयतः त्रैमासिकं, प्रतिकुञ्च्य आलोचयतः चातुर्मासिकम् ॥ सू०९॥
भाष्यम्--'जे भिक्खू' इति । 'जे भिक्खू' यो भिक्षुः 'बहुसोवि' बहुशोऽपि द्वित्रिचतुर्वारान् ततोऽधिकान् पञ्चषट्सप्तादिवारान् वा 'तेमासियं' त्रैमासिकं मासत्रयकालेन संपादनयोग्यम् 'परिहारट्ठाणं' परिहारस्थानम् 'पडिसेवित्ता' प्रतिसेव्य 'आलोएज्जा' आलोचयेत् आलोचनां कुर्यात् , 'अपलिउंचिय' अप्रतिकुञ्च्य मायामकृत्वा 'आलोएमाणस्स' आलोचयतः मालोचनां कुर्वतः 'तेमासिय' त्रैमासिकम्, मासत्रयेण संपादनयोग्यं प्रायश्चित्तम् 'पलिउंचिय आलोएमाणस्स' प्रतिकुञ्च्य मायापूर्वकमालोचयतः 'चाउम्मासियं' चातुर्मासिकम् , प्रतिकुञ्च्यालोचयतः चतुर्थो मायानिष्पन्नो मासः ॥ सू० ९॥
सूत्रम्--जे भिक्खू बहुसोवि चाउम्मासियं परिहारहाणं पडिसेवित्ता आलोएज्जा। अपलिउंचिय आलोएमाणस्स चाउम्मासियं पलिउंचिय आलोएमाणस्स पंचमासियं ॥१०॥
HTHHTHHI
छाया--यो भिक्षुर्बहुशोऽपि चातुर्मासिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् । मप्रतिकुउच्य आलोचयतश्चातुर्मासिकं प्रतिकुञ्च्य आलोचयतः पाश्चमासिकम् ॥ सू०१०॥ __ भाष्यम्--'जे भिक्खू' इति । 'जे भिक्खू' यो भिक्षुः 'बहुसोवि' बहुशोऽपि त्रिचतुः पञ्चप्रभृतिवारानपि 'चाउम्मासिय' चातुर्मासिकं मासचतुष्टयेन संपादनयोग्यं 'परिहारहाणं
व्य, २