________________
भाष्यम् उ० १ सू० १८
प्रतिकुञ्चनाऽप्रतिकुञ्चनायां प्रायश्वितदानविधिः २३
पंचमासियं वा सातिरेक पाञ्चमासिकं वा 'एएस परिहारद्वाणाणं' एतेषां चातुर्मासिकादिपरिहारस्थानानाम् 'अन्नयरं परिहारद्वाणं पडिसेवित्ता' अन्यतरत् एतेषु मध्ये यत् किमप्येकं परिहारस्थानं प्रतिसेव्य 'आलोएज्जा' आलोचयेत् स्वकीयमपराधजातमाचार्यसमीपे प्रकाशयेत् । तत्र 'पलिउंचिय आलोएमाणस्स' प्रतिकुञ्च्य सकपटमालोचयतः 'ठवणिज्जं ठावइत्ता' स्थापनीयं स्थापयित्वा यः साधु साध्वी वा परिहारतपःपायश्चित्तस्थानं प्राप्तः तस्य परिहारतपोदानार्थ सकलसाधुसाध्वी जनपरिज्ञानाय सकलगच्छसमक्षं निरुपसर्गप्रत्ययं पूर्वं कायोत्सर्गः क्रियते, कायोत्सर्गकरणानन्तरं गुरुर्भूते – अहं ते कल्पस्थितः, अयं च साधुरनुपारिहारिकः । ततः स्थापनीयं स्थापयित्वेति यत्नेन सहाचरणीयम् । स्थाप्यते इति स्थापनीयं वक्ष्यमाणमालापन परिवर्त्तनादि, तत् सकलगच्छममक्षं स्थापयित्वोपवेश्य कल्पस्थितेनाऽनुपारिहारिकेण च यथायोगं अनुशिष्ट्युपालम्भरूपम् 'करणिज्जं वेयावडियं' करणीयं वैयावृत्यं तस्याऽऽहारादिना वैयावृत्यं करणीयम् | 'ठाविवि पडिसेवित्ता' स्थापितेऽपि प्रतिसेव्य ताभ्यामाचार्य - वैयावृत्य कर्तृभ्यां क्रियमाणेऽपि वैयावृत्ये स्थापितेऽप्यालापनादौ कदाचित् किमपि दोषं प्रतिसेव्य गुरोः समक्ष - मुपस्थितो भवेत्, यथा- भगवन् ! अहम् अमुकं प्रायश्चित्तस्थानमापन्नः, ततः 'सेवि कसिणे तत्व आरोहियव्वे सिया' तदपि कृत्स्नं तत्रैवाऽऽरोपयितव्यं स्यात्, तदपि कृत्स्नं परिहारतपसि आरोप्यमाणे आरोपणीयं स्यात् । तत्र तस्य प्रतिसेवितस्याऽऽचार्यसमक्षमालोचनायां चतुर्भङ्गी भवति, तामेवाह - 'पुव्वं' इत्यादि । 'पुव्वं पडिसेवियं पुव्वं आलोइयं पूर्वं प्रतिसेवितं पूर्वमालोचितम् तत्र पूर्वमित्यस्य पूर्वाssनुपूर्व्या इत्यर्थः । ततोऽयमर्थः, - गुरुलघुपर्यालोचनया पूर्वाऽऽनुपूर्व्या लघुपञ्चकादिक्रमेण प्रतिसेवितं, तत् पूर्वं पूर्वाऽऽनुपूर्व्या प्रतिसेवनाऽनुक्रमेणाऽऽलोचित - मिति प्रथमो मङ्गः १ ।
द्वितीयभङ्गमाह – 'पुव्वं पडिसेवियं पच्छा आलोइयं पूर्वं प्रतिसेवितं पश्चादालोचितं पूर्वं गुरुलघुपर्यालोचनया पूर्वाssनुपूर्व्या मासलघुकादि प्रतिसेवितं, तदनन्तरं च तथाविधाऽल्पप्रयोजनोत्पत्तौ गुरुलघुपर्यालोचनयैव लघुपञ्चकादि प्रतिसेवितम् । आलोचनाकाले तु पश्चात् पश्चाऽऽनुपूर्व्या आलोचितं, पूर्वं लघुपञ्चकाद्यालोचितं पश्चात् लघुमासादिकमालोचितमिति द्वितीयो भङ्गः २ ।
तृतीयभङ्गमाह - 'पच्छा पडिसेवियं पुव्वं आलोइयं' पश्चात् प्रतिसेवितं पूर्वमालोचितं पश्चादानुपूर्व्या प्रतिसेवितं, गुरुलघुपर्यालोचनामन्तरेण पूर्वं गुरुमासादिकं प्रतिसेवितम् पश्चात् लघुपञ्चकादि प्रतिसेवितम् । आलोचनावेलायां आनुपूर्व्या आलोचितं पूर्वं लघुपञ्चकाचालोचितं पश्चात गुरुमासादीति तृतीयो भङ्गः ३ ।