________________
व्यवहारस्त्र तत्रैकेन महोत्सवसमये कस्मैचिद् राज्ञे सा माला विधिना प्रदर्शिता, स राज्ञा बहुव्येण पुरस्कृतः। द्वितीयेन सा माला न प्रकटीकृता संगोप्य रक्षिता तेन पुरस्कारो न लब्धः, एवं यो मूलगुणापराधमुत्तरगुणापराधं च न प्रकटीकरोति स निर्वाणलाभं न लभते, अपरः स्वापराधप्रकाशकस्तु परम्परया निर्वाणलाभ लभते इति ॥ सू०४ ।।
सूत्रम्-जे भिक्खू पंचमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा । अपलिउंचिय आलोएमाणस्स पंचमासिय, पलिउंचिय आलोएमाणस्स छम्मासियं ॥ सू०५ ॥
छाया -यो भिक्षुः पाञ्चमासिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् । अप्रतिकुच्य आलोचयतः पाञ्चमासिकं, प्रतिकुञ्च्यालोचयतः पाण्मासिकम् ॥ सू० ५॥
भाष्यम् 'जे भिक्ख' इति । 'जे भिक्ख' यः कश्चिद्भिक्षुः 'पंचमासिय' पांचमासिकं 'परिहारहाणं' परिहारस्थानं 'पडिसेवित्ता' प्रतिसेव्य 'आलोएज्जा' आलोचयेत् 'अपलिउंचिय' अप्रतिकुञ्च्य 'आलोएमाणस्स' आलोचयतः 'पंचमासियं' पांचमासिकं मासपञ्चकसाध्यं प्रायश्चित्तं लघुकं गुरुकं वा प्रतिसेवनानुसारि गुरुर्दद्यात् , 'पलिउंचिय आलोएमाणस्स' प्रतिकुञ्च्य मायां कृत्वा, मायापूर्वकमालोचयतस्तु 'छम्मासिय' पाण्मासिकं षड्भिर्मासैः साधनीय लघुकं गुरुकं वा प्रतिसेवनानुसारि प्रायश्चित्तं दद्यात् ।
अत्र प्रतिकुश्चके मेघदृष्टान्तो यथा-एको मेघो नो गर्जति नो वर्षति; कश्चित् मेघो नो गर्जन कृत्वा नो वर्षति, एवं हे शिष्य ! त्वमपि आलोचयामीति कथयित्वा आलोचयितुमारभ्य मायां करोषि । यदि मायां करिष्यसि तदा नियमभ्रष्टो भविष्यसि अतः सम्यगालोचय, मायां मा कुरु । तत्र द्वैमासिकादिपरिहारस्थानेषु कुञ्चिते यथाक्रममिमे पूर्वोक्ता श्चत्वारो दृष्टान्ताः घटन्ते, तथाहि-द्वैमासिकं परिहारस्थानं प्राप्तस्य प्रतिकुञ्चकस्य दृष्टान्तः कुञ्चिकः तापसः १। त्रैमासिकं परिहारस्थानं प्राप्तस्य योधो दृष्टान्तः २। चातुर्मासिकं परिहारस्थानं प्राप्तस्य मालाकारो दृष्टान्तः ३ । पाञ्चमासिकं परिहारस्थानं प्राप्तस्य मेघो दृष्टान्तः ४ । तत्र प्रतिकुञ्चनायां कृतायामाचार्येण–'सम्यगालोचय मा प्रतिकुश्चनां कुरु' एवमुपालब्धो यदि सम्यक् प्रत्यावृत्य वदेत्-भगवन् ! "मिच्छामि दुक्कडं" मिथ्या मे दुष्कृतम् , सत्यं भवतां कथनम् , सम्प्रति सम्यगालोचयामि । ततः स श्रुतव्यवहारी प्रतिकुञ्चिते तं तथा प्रत्यावृत्तं सन्तं पुनरपि वारत्रयमालोचनां कारयति । तत्र त्रिभिर्वारैः सदृशमालोचयति तदा ज्ञातव्यो यदयं सम्यक् प्रत्यावृत्त इति । तदनन्तरं तस्मै यद्देयं प्रायश्चित्त तदातव्यमिति । ननु वारत्रयमालोचनादेवाऽस्य श्रुतव्यवहारिणोऽन्तर्गतां मायां कथं लक्षीकुर्वन्ति ? तत्राह