SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ भाग्यम् उ० १ ० ६-७ परिहारस्थानसेविनः प्रायश्चित्तविधिः ७ " आकारैश्च स्वरैश्व, पूर्वाऽपरव्याहताभिवगीर्भिः । ज्ञात्वा कुञ्चितभावं परोक्षज्ञानिनो व्यवहरन्ति ॥ १ ॥ परोक्षज्ञानिनः श्रुतव्यवहारिण आचार्याः परान्तःकरणे विद्यमानां मायामा कारादिभिर्जानन्ति । तत्राssकाराः - शरीरगता भावविशेषाः । तत्र यः शुद्धस्तस्य सर्वेऽप्याकाराः संविग्नभावोपदर्शका भवन्ति, इतरस्य तु न तथा । तथा स्वराः विविक्ताः विस्पष्टाः अक्षुभिताश्च निस्सरन्ति । अशुद्धपुरुषस्य तु अव्यक्ताः अविस्पष्टाः क्षुभिता गद्गदाश्च । तथा शुद्धस्य वाणी पूर्वापराऽव्याहता, अशुद्धस्य वाणी पूर्वापरविसंवादिनी । एवं परोक्षज्ञानिनः श्रुतव्यवहारिणः- आकारैः स्वरैः पूर्वापरव्याहताभिश्च वाणीभिः तस्याऽऽलोचकस्य अन्तःकरणगतं कुञ्चितभावं ज्ञात्वा तथा व्यवहरन्ति । पूर्वं मायाप्रत्ययेन प्रायश्चित्तदण्डेन दण्डयते, पश्चात् अपराधप्रत्ययेन प्रायश्चित्तदण्डेनेति । अथ यदि विसदृशमालोचयति तदा गुरुणा वक्तव्यं यद् - भो भोः ! अन्य मुनिसमीपे गत्वा स्वकीयपरिहारस्थानस्य शुद्धिं कुरु । नाहं तवैतादृश्या असद्दश्या आलोचनायाः सद्भावमजानानः शुद्धिकर्ते शक्नोमि, इति । शिष्यः पुनः प्रश्नयति - गुरो ! संसारपारावारसमुत्तरणकरण ! ता मासादीनि षण्मासपर्यन्तानि परिहारस्थानानि कुतः प्राप्तानि ! तत्राह - उद्गमादिरूपत्रिकस्थानात् एतानि परिहारस्थानानि प्राप्तानि भवन्ति । अयं भावः - उद्गमोत्पादनैषणासु यद् अकल्प्य प्रति सेवनाया आचरणं तस्मादेवैतानि परिहारस्थानानि प्राप्तानि भवन्तीति ॥ सू० ५ ॥ सम्प्रति षाण्मासिकप्रायश्छित्तादूर्ध्वं प्रायश्चित्तं न भवतीति प्रदर्शयति - ' तेण परं' इत्यादि । सूत्रम् - तेण परं पलिउंचिए वा अपलिउंचिए वा ते चैव छम्मासा || सू० ६ ॥ छाया -- ततः परं प्रतिकुञ्चिते वा अप्रतिकुञ्चिते वा त एव षण्मासाः ॥ सू० ६॥ भाष्यम् – ' तेण परं' इति । 'तेण परं' ततः परं, तेनेति पञ्चम्यर्थे तृतीया, अथवा 'तेन' इति अव्ययं ' ततः' इत्यर्थे, तथा च तेन ततः पाञ्चमासिकप्रायश्चित्तस्थानात् परमूर्ध्वं षाण्मासिकादिपरिहारस्थाने प्रतिसेविते सति, आलोचनाकाले प्रायश्चित्तसमये 'पलिउंचिए वा ' प्रतिकुञ्चिते वा, प्रतिकुञ्चनं माया तत्सहिते वा 'अपलिउंचिए वा' अप्रतिकुञ्चिते वा मायारहिते वा, मायापूर्वकम्, अमायापूर्वकं वा आलोचिते इत्यर्थः । ' ते चेव छम्मासा' त एव षण्मासाः त एव प्रतिसेवनानिष्पन्नाः स्थिता मासाः षण्मासा एव, ना प्रतिकुञ्चनानिमित्तमारोपणं कर्तव्यम् ।
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy