SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ० १ सू० ४-५ परिहारस्थानसेविनः प्रायश्चित्तविधिः ५ अयं भावः- त्रैमासिकं पापस्थानं प्रतिसेय. यदि कश्चित्साधुः स्वकीयपापनिवारणाय गुरुसमीपे शुद्धभावेन प्रायश्चित्तमिच्छेत् तदा गुरुस्तस्मै त्रैमासिकं गुरुकं लघुकं वा प्रायश्चित्तं प्रतिसेवनानुसारेण दद्यात् । अथ कदाचित् मायापूर्वकमालोचयितुमिच्छेत् , तदा गुरुः प्रतिसेवनाऽनुसारि चातुर्मासिकं गुरुकं लघुकं वा प्रायश्चित्तं दद्यात् मायादण्डरूपेण मासाधिक्यं वदेत् । अत्र प्रतिकुञ्चके दृष्टान्तो योधः, तथाहि-वसन्तपुरनामके नगरे वसन्तसेनो राजा, तस्य शूरसेननामक एको योधः शूरत्वेनातीव वल्लभः । स चैकदा तस्य राज्ञः एकेन प्रतिपक्षभूतेन राज्ञा सह युद्धे प्रवृत्ते तत्र सेनापतित्वमङ्गीकृत्य स्वसैन्यं परसैन्येन सह योधयन् स्वयमपि पर चक्रचूरणाय यो प्रवृत्तः । ततः परसैन्यं पराजित्य विजयलक्ष्मीमासादितवान् किन्तु तस्य शरीरे परसैन्यक्षिप्तानि अनेकानि शल्यानि प्रविष्टानि । राजा चातिप्रियत्वेन तच्छरीरगतशल्योद्धरणार्थ वैद्य आदिष्टः । वैद्यश्च शल्यानि निष्कासयितुं प्रवृत्तस्तेन तस्यातिवेदना जायते ततो वेदनाभयात् कानिचित् शल्यानि मायाभावेन वैद्याय न प्रकटितानि तेन स शल्यबाधया दुर्बलीभूय मृतः । एवमिहापि यः परिहारस्थानप्रतिसेवकः कौटिल्यभावेन स्वकृतं सर्वं पापं गुरवे न प्रकटीकरोति केवलमेकं द्विकं वा प्रदर्शयति असौ योधवत् तत्पापप्रभावेण संयमजीवितात् परिभ्रश्यतीति ॥ सू० ३ ॥ सूत्रम्-जे भिक्खू चाउम्मासियं परिहारहाणं पडिसेवित्ता आलोएज्जा। अपलिउंचिय आलोएमाणस्स चाउम्मासियं, पलिउंचिय आलोएमाणस्स पंचमासियं ॥ सू० ४ ॥ छाया -यो भिक्षुश्चातुर्मासिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् । अप्रतिकुत्र्य आलोचयतश्चातुर्मासिकं, प्रतिकुञ्च्यालोचयतः पाञ्चमासिकम् ॥ सू० ४ ॥ भाष्यम्-'जे भिक्खू' इति । 'जे भिक्खू' यो भिक्षुः 'चाउम्मासियं' चातुमासिकम् 'परिहारद्वाणं' परिहारस्थानम् 'पडिसेवित्ता' प्रतिसेव्य 'आलोएज्जा' आलोचयेत् 'अपलिउंचिय' अप्रतिकुञ्च्य 'आलोएमाणस्स' आलोचयतः 'चाउम्मासियं' चातुर्मासिकं 'पलिउंचिय' प्रतिकुञ्च्य 'आलोएमाणस्स' आलोचयतः ‘पंचमासियं' पाञ्चमासिकं मासपञ्चकेन निवर्तयितुं योग्यं लघुकं गुरुकं वा प्रतिसेवनानुसारि प्रायश्चित्त वदेत् गुरुरिति । अयं भावः-यत्रैव कर्मणि मायारहितस्य शिष्यस्याऽन्यस्य वा चातुर्मासिकं गुरुकं लघुकं वा प्रतिसेवनानुसारि प्रायश्चित्तं, तत्रैव मायासहितस्य पाश्चमासिकं लघुकं गुरुकं वा प्रतिसेवनानुसारि प्रायश्चिनं दद्यात्, मासाधिक्यस्य मायाप्रयोज्यत्वात् । अत्र दृष्टान्तमाह-एकस्मिन् उद्याने द्वौ मालाकारौ वसतः । तत्रैकदा 'कौमुदीमहोत्सव आसन्नीभूतः' इति कृत्वा द्वावपि तौ बनि पुष्पाणि उद्यानतः संगृहय माला विनिर्मितवन्तौ
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy