SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ व्यवहारसूत्रे छाया - यो भिक्षुद्वैमासिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् । अपरिकुव्य आलोचयतः द्वैमासिकम् परिकुंच्य आलोचयतः त्रैमासिकम् ॥ सू० २ ॥ , भाष्यम् – 'जे भिक्खू' इति । यः कश्चिद् भिक्षुः 'दोमासिय' द्वैमासिकम् 'परिहाराष्ट्राणं' परिहारस्थानम् 'पडिसेवित्ता' प्रतिसेव्य 'आलोएज्जा' आलोच्येत् आलोचनां कुर्यात् 'अपलिउंचिय आलोएमाणस्स' अप्रतिकुञ्च्य आलोचयतः 'दोमासियं द्वैमासिकं 'पलिउंचिय आलोएमाणस्स प्रतिकुञ्चय. सकपटमालोचयतः 'तिमासियं' त्रैमासिकं त्रिमासेन निर्वर्त्तनयोग्यं प्रायश्चित्तं दद्यात् प्रतिकुञ्चनानिष्पन्नस्य गुरुमासस्य प्रक्षेपात् । अयं भावः- यदि कश्चित् साधुः द्वैमासिकं प्रायश्चित्तस्थानं प्रतिसेव्य शुद्धभावेन गुरुसमीपे प्रायश्चित्तमभिलषति तदा गुरुस्तस्मै द्वैमासिकं लघुकं गुरुकं वा प्रायश्चित्तं दद्यात् । यदि कदाचित् स एव सकपटमालोचयेत् तदा मायाप्रयोगापराधाद गुरुस्तस्मै त्रैमासिकं प्रायश्चित्तं दद्यादिति । इह द्वैमासिकं परिहारस्थानमात्रमापन्नस्य प्रतिकुञ्चकस्य दृष्टान्तः, तथाहि अस्ति कश्चित् कुञ्चिको नाम तापसः, स फलान्यानेतुं वनं गतः । अरण्यं परिभ्रमता तेन नद्यां मृतो मत्स्यो दृष्टः, तं समादाय भक्षितश्च तेन तस्य रोगः समुत्पन्नः । ततस्तेन रोगपरिहाराय पृष्टो वैद्यः प्रोवाच किं त्वया भक्षितम् ? तापसोऽवदत्-फलमेव नान्यत्किश्चित् । वैद्येन कथितम् - घृतं पिब । तापसेन तथा कृतम्, किन्तु रोगो न नष्टः । तदा पुनस्तापसो वैद्यं कथितवान् - रोगो न गतः । वैद्यः प्रोवाच - तापस ! सत्यं वद, ततस्तापसो यथावृत्तं मत्स्यभक्षणमाख्यातवान् । ततो निदानज्ञवैथेन वमन विरेचनादिना रोगो निष्कासितः । एवमेव शुद्धभावेनोपस्थिताय शिष्याय गुरुद्वैमासिकं प्रायश्चित्तं दद्यात् येन तस्य विशुद्धिर्भवेदिति ॥ सू०२॥ सूत्रम् - जे भिक्खू तेमासियं परिहारद्वाणं पडिसेवित्ता आलोएज्जा । अपलिउंचि आलोएमाणस्स तेमासियं, पलिउंचिय आलोएमाणस्स चाउम्मासि ॥ ०३॥ छाया - यो भिक्षुस्त्रैमासिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् । अप्रतिकुऊच्य आलोचयतः त्रैमासिकं, प्रतिकुरुच्य आलोचयतश्चातुर्मासिकम् ॥ सू० ३ ॥ भाष्यम् – 'जे भिक्खू' इति । यो भिक्षुः 'तेमा सियं' त्रैमासिकं परिहारद्वाणं परिहारस्थानं 'पडिसेवित्ता' प्रतिसेव्य 'आलोएज्जा' आलोचयेत्, 'अपलिचिजय' अप्रतिकुञ्चय 'आलोपमाणस्स' आलोचयतः 'तेमासिय' त्रैमासिकं त्रिमासेन निर्वर्त्तनयोग्यं प्रायश्चित्तं लघुकं गुरुकं वा प्रतिसेवनानुसारि गुरुर्दद्यात्, 'पलिउंचिय' प्रतिकुञ्च्य मायामाचर्य 'आलोए - माणस्स' आलोचयतः 'चाउमा स्त्रियं' चातुर्मासिकं मासचतुष्टयेन निर्वर्त्तनयोग्यं प्रायश्चित्तं लघुकं गुरुकं वा प्रतिसेवनानुसारि दथात् ।
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy