________________
भाष्यम् उ०१ सू० १-३
परिहारस्थानसेविनः प्रायश्चित्तविधिः ३ रस्य स्थानं परिहारस्थानम्' इति विग्रहवाक्यम् ४ । चालना-प्रश्नः, यथाऽत्रैव यदि 'परिहारः पापं प्रायश्चित्तं वा तदेव स्थानम्' इति विग्रहः क्रियेत तदा परिहारस्य स्थानस्य चेत्युभयोः पदयोः समानार्थकत्वाद् एकस्यैवाऽन्यतरस्य प्रयोगः करणीयो न तु द्वयोः 'उक्तार्थानामप्रयोगः' इति न्यायादिति ५ । प्रत्यवस्थानम्-तादृशप्रश्नस्योत्तरदानं, तथाहि-स्थानशब्दो नाम शब्दशक्तिस्वाभाव्यादनेकविशेषाधारसामान्याभिधायी, तेन एतद् ध्वनयति-अनेकप्रकाराणि नाम मासिकप्रायश्चित्तानि, अनेकप्रकारेण च मासिकेन उपन्यस्तेन प्रयोजनं, कल्पाध्ययनोक्तसकलमासिकप्रायश्चित्तविषयकदानालोचनयोरभिधातुमुपक्रमात् , अतोऽत्र स्थानग्रहणम् , इत्यादिरूपमुत्तरदानम् ६ । इति व्याख्यालक्षणम् ।
अथ सूत्रं व्याख्यायते-'जे भिक्ख' इति । यः कश्चिद् भिक्षुः पूर्वोक्तस्वरूपः, यद्वा नैरुक्ती शब्दव्युत्पत्तिर्यथा 'क्षुध बुभुक्षायाम्' क्षुध्यति बुभुक्षते भोक्तुमिच्छति चतुर्गतिकमपि संसारमस्मादिति संपदादित्वात् किपि क्षुत्-अष्टप्रकारकं कर्म, तां भिनत्ति ज्ञानदर्शनचारित्रतपोभिर्विदारयतीति भिक्षः पृषोदरादित्वाद् भिक्षुरूपनिष्पत्तिः, एतादृशो भिक्षः साधुः, धर्मस्य पुरुषप्रधानत्वाद् भिक्षनिर्देशः, ततो भिक्षुकी साध्वी वा 'मासियं' मासिकं-मासेन निर्वृत्तं 'परिहारहाणं' परिहारस्थानं परिहियते परित्यज्यते गुरुसमीपे गत्वा यः स परिहारः पापम्, तिष्ठन्ति जन्तवः कर्मकलुषिता अस्मिन्निति स्थानम् , परिहारस्य स्थानं परिहारस्थानं पापस्थानम् 'पडिसेवित्ता प्रतिसेव्य आचर्य 'आलोएज्जा' आलोचयेत् 'लोचदर्शने' धातुः, 'आङ् मर्यादायाम्' तेन आमर्यादया 'जह बालो जपंतो' इत्यादिरूपया आलोचयेत् , यथा आत्मनस्तथा गुरोः प्रकटीकुर्यात् शिष्यः, अत्र 'यः भिक्षुः' इत्यत्र यच्छब्दः 'यत्तदोनित्यसम्बन्धः' इति न्यायात् तच्छब्दापेक्षस्तेन यो भिक्षः मासिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् तस्य 'अपलिउंचिय' अप्रतिकुञ्च्य 'कुच कुरुच कौटिल्याल्पाल्पीभावयोः' इति धातोः प्रतिकुच्येति रूपम् , प्रतिकुञ्ष्य कौटिल्यमाचर्य, न प्रतिकुञ्च्य अप्रतिकुञ्च्य सर्वथा कपटमकृत्वा 'आलोएमाणस्स' आलोचयतः भिक्षोः 'मासियं' मासिकं मासेन निर्वर्तनयोग्यं लघुकं गुरुकं वा प्रतिसेवनानुसारतो गुरुः प्रायश्चित्तं दद्यात् । यदि यो भिक्षुः शुद्धभावेन नालोचयेत् 'पलिउंचिय' प्रतिकुच्य कौटिल्यमाचर्य 'आलोएमाणस्स' आलोचयतः 'दोमासियं' द्वैमासिकं मासद्वयनिर्वर्तनयोग्यं लघुकं गुरुकं वा प्रतिसेवानुसारतः प्रायश्चित्तं गुरुर्दद्यात् , मायाकरणतोऽधिकस्य गुरुमासस्य सद्भावात् , प्रतिकुञ्च्य आलोचयतो यत् प्राप्तं तत्तु दीयत एव, अन्यश्च मायाप्रत्ययो गुरुको मास इति द्वैमासिर्फ प्रायश्चित्तं तस्याऽऽपद्यते इति ॥सू० १॥
सूत्रम्--जे भिक्खू दोमासियं परिहारहाणं पडिसेवित्ता आलोएज्जा, अपलिउंचिय आलोएमाणस्स दोमासियं पलिउंचिय आलोएमाणस्स तिमासियं ॥ सू०२॥