________________
व्यवहारसूत्रे अथ त्रयाणामपि पदानां संक्षपप्ररूपणार्थमिदमाह-'ववहारी' इत्यादि । भाष्यम्- ववहारी खलु कत्ता, ववहारो हवइ करणभूओ उ ।
__ववहरणिज्जं कन्जं, कुंभाइतिगस्स जह सिद्धी ॥२॥ छाया-व्यवहारी खलु कर्ता, व्यवहारो भवति करणभूतस्तु ।
___ व्यवहरणीयं कार्य, कुम्भादित्रिकस्य यथा सिद्धिः ॥२॥
अवचूरी—'ववहारी' इति अस्मिन् शास्त्रे 'खलु' खल निश्चयेन । 'ववहारी' व्यवहारी 'कत्ता' कर्ता कथ्यते। 'ववहारो उ' व्यवहारस्तु 'करणभूओ' करणभूतः करणरूपो भवति । स च करणभूतो व्यवहारः पञ्चविधः, तद्यथा-आगमः, श्रुतम् , आज्ञा, धारणा, जीतं चेति । 'ववहरणिज्ज' व्यवहरणीयम् , करणभूतेन पञ्चविधव्यवहारेण व्यवहरन् कर्त्ता यन्निष्पादयति तत् 'कज्ज हवई' कार्य भवति । ननु व्यवहारग्रहणेन व्यवहारी व्यवहरणीयं चेति द्वे कथं गृह्येते ? नहि देवदत्तग्रहणेन यज्ञदत्तादयो गृह्यन्ते ? इति चेत् अत्रोच्यते-'जह कुंभाइतिगस्स सिद्धी' यथा-कुम्भादित्रिकस्य सिद्धिोके भवति, तथाऽत्राऽपि इति । अयं भावः-कुम्भ इत्युक्ते, : कुम्भ इति कार्य्यम् , कुलालस्तस्य कर्ता, मृदण्डचक्रादिकं करणं च सामर्थ्याद् गृह्यते, कृतस्य कार्यस्य कर्तृकरणव्यतिरेकेण चाऽसंभवात् । एवं व्यवहार इत्युक्ते व्यवहारी व्यवहरणीयश्च गृह्येते एव, कुत्रापि सकर्मकक्रियायाः साधकतम रूपस्य करणस्याऽपि कर्मकर्तृव्यतिरेकेणाऽसंभवात् ॥२॥
___ तदेवं व्यवहार-व्यवहारि-व्यवहरणीयानां निरूपणं कृत्वा संप्रति सूत्रं व्याख्यातुमाह'जे भिक्खू' इत्यादि ।
सूत्रम्-जे भिक्खू मासियं परिहारहाणं पडिसेवित्ता आलोएज्जा । अपलिउंचिय आलोएमाणस्स मासिय, पलिउंचिय आलोएमाणस्स दोमासियं ॥ २० १॥
___ छाया-यो भिक्षुर्मासिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् । अपरिकुञ्च्यालोचयतो मासिकम् , प्रतिकुञ्च्यालोचयतो द्वैमासिकम् ॥ सू० १॥
अथास्य सूत्रस्य भाष्यरूपेण व्याख्या क्रियते, तल्लक्षणं चेदम्
"संहिता च पदं चैव, पदार्थः पदविग्रहः।।
चालना प्रत्यवस्थानं, व्याख्या सूत्रस्य पइविधा" ॥१॥
तत्र संहिता नाम-अस्खलितपदानां सामीप्येन उच्चारणम् १ । पदं च-पदच्छेदकरणम् , यथाऽत्रैव सूत्रे 'यः भिक्षुः मासिकं, परिहारस्थानं प्रतिसेव्य, आलोचयेत्' इत्यादि २। तथा पदार्थः-पदस्य वाच्यार्थः, यथा भिक्षुपदस्यार्थप्रतिपादनं, तथाहि-'भिक्ष याचने' इति धातोः भिक्षते यमनियमव्यवस्थितः कृतकारितानुमोदितपरिहारेण याचते इत्येवंशीलो भिक्षुः उ प्रत्यये भिक्षुरिति सिद्धम् ३ । पदविग्रहो-नाम-पदानां परस्परविश्लेषीकरणं, यथाऽत्रैव 'परिहा