________________
श्री चीतरागाय नमः
जैनाचार्य-जैनधर्मदिषाफर-पूज्यश्री घासीलालबतिविरचित-भाष्यसमलङ्कृतम्
. श्री व्यवहारसूत्रम्
___ मंगलाचरणम् वर्द्धमानं जिनं नत्वा, गणीशं गौतमं तथा ।
व्यवहारागमे भाष्यं, घासीलालेन तन्यते ॥१॥ इतः पूर्व बृहत्कल्पसूत्रं व्याख्यातम् । 'सम्प्रति व्यवहारसूत्रं विवियते-अस्य व्यवहारसुत्रस्य वहत्कल्पसूत्रेण सहाऽयमभिसम्बन्धः-बहत्कल्पे सामान्यत एव प्रायश्चित्तमुक्तम्, न तु तदानविधिरालोचनविधिर्धा, व्यवहारे तु प्रायश्चित्तदानमालोचनाविधिश्चाऽभिधास्यते । तदनेन सम्बन्धेनाऽऽयातस्यास्य व्यवहाराध्ययनस्य व्याख्या प्रस्तूयते -
अत्र व्यवहारग्रहणेन व्यवहारी, ध्यपहरणीयं चेति द्वयमपि सूचितम् । व्यवहारि-व्यवहरणीययोरभाव व्यवहारस्यैवाऽसंभवात् , ततो यथा व्यवहारस्य प्ररूपणा कर्त्तव्या, तथा व्यवहारि-व्यवहरणीययोरपीति, तत् त्रयाणामपि प्ररूपणां कुर्वन्नाह भाष्यकार:-विवहारो' इत्यादि । भाष्यम्-ववहारो ववहारी, ववंहरणिज्जा य जे जहा पुरिसा।
एएसि तु पयांणं, पत्तेयं खलु पवणं वोच्छं ॥१॥ छाया-व्यवहारो व्यवहारी, व्यवहरणीयाश्च ये यथा पुरुषाः ।
एतेषां तु पदानां, प्रत्येकं खलु प्ररूपणां वक्ष्ये ॥१॥ अवचूरी-'ववहारो' · इति । व्यवहारः, व्यवहियते दीयते यद्यस्य प्रायश्चित्तमापतति तद्दानविषयीक्रियतेऽनेन स व्यवहारः । 'ववहारी' व्यवहारी व्यवहरतीत्येवंशीलः व्यवहारक्रियाप्रवर्तकः प्रायश्चित्तदायक इति यावत् 'य' च 'जे पुरिसा" ये पुरुषाः, अत्र पुरुषग्रहणं पुरुषोत्तमो धर्म इति ज्ञापनार्थम् । पुरुषपदेन स्त्रियोऽपि परांमृष्टा भवेयुः, तांसामपि प्रायश्चित्तदानविषयतया प्रतिपादयिष्यमाणत्वात् । 'जहा' यथा येन वक्ष्यमाणप्रकारेण 'ववहरणिज्जा' व्यवहरणीयाः व्यवहारविषयीकर्तव्याः- 'एएसि पयाणं' एतेषां पदानाम् व्यवहार-व्यवहारिव्यवहरणीयानां त्रयाणाम् 'तु' तु-अपि 'पत्तेय' प्रत्येकम्, एकैकस्य पदस्य 'परूवर्ण' प्ररूपणां याक्ष्यां संक्षेपतो विस्तरतश्च 'खलु' खल-निश्चयेन 'वोच्छं' वक्ष्ये कथयिष्यामि ॥१॥