SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ० १० सू० ४ वज्रमध्यचन्द्रप्रतिमास्वरूपम् २३९ एगा दत्ती। सुक्कपक्खस्स पाडिवए कप्पइ दो दत्तीओ, बीयाए तिण्णि जाव चउद्दसीए पणरस, पुण्णिमाए अभत्तढे भवइ । एवं खलु एसा वइरमज्झा चंदपडिमा अहासुतं अहाकप्पं अहामग्गं जार अणुपालिया भवइ ॥ सू०४॥ छाया-वज्रमध्यां खलु चन्दप्रतिमां प्रतिपन्नस्याऽनगारस्य बहुलपक्षस्य प्रतिपदि कल्पते तस्य पञ्चदश दत्तीर्भोजनस्य प्रतिग्रहीतुम् पंचदश पानकस्य, सर्वैद्विपदचतुष्पदादिभिराहारकांक्षिभिः यावत् नो आहरेत् । द्वितीयायां तस्य कल्पते चतुर्दश दत्ती - जनस्य प्रतिग्रहीतुं चतुर्दश पानकस्य यावत् नो आहरेत् । एवं यावत् पञ्चदश्याम् (अमावास्यायाम्) एका दत्तिः। शुक्लपक्षस्य प्रतिपदि कल्पते द्वे दत्ती, द्वितीयायां तिस्रः यावच्चतुर्दश्यां पञ्चदश, पूर्णिमायाम् अभक्तार्थो भवति । एवं खलु एषा वज्रमध्या चन्द्रप्रतिमा यथासूत्रं यथाकल्पं यथामार्ग यावत् अनुपालिता भवति ॥ सू०४॥ भाष्यम्-'वइरमझ णं चंदपडिम' वज्रमध्यां खलु चन्द्रप्रतिमाम् 'पडिवन्नस्स' अणगारम्स' प्रतिपन्नस्याऽनगारस्य-साधोः 'बहुलपक्खस्स' बहुलपक्षस्य कृष्णपक्षस्येत्यर्थः 'पाडिवए' प्रतिपदि-प्रतिपत्तिथी प्रथमदिवसे इत्यर्थः, 'कप्पइ पन्नरस दत्तीओ भोयणस्स पडिगाहित्तए' कल्पते पञ्चदश दत्नी जनस्य-भक्तौदनादेः प्रतिग्रहीतुम्, तथा-'पन्नरस पाणगस्स' पञ्चदश दत्तीः पानकस्यापि प्रतिग्रहीतुं कल्पते, कदा ? इत्याह-'सव्वेहिं दुप्पयचउप्पयाइएहिं आहारकंखीहिं जाव णो आहारेज्जा' सर्वेषु द्विपदचतुष्पदादिषु आहारकांक्षिषु प्रतिनिवृत्तेषु यावद् नो आहरेत्, एतया सूत्रोक्तया एषणया एषयन् यदि लभेत तदा-आहरेत्, एतया एषणया एषयन् नो लभेत तदा नो आहरेदिति सर्वत्रैव योजनीयम् । अत्र-यावत्पदगृहीतस्य सर्वस्यापि पाठस्याओं यवमध्यचन्द्रप्रतिमासूत्रे विलोकनीयः । "बितियाए चउद्द सदत्तीओ भोयणस्स पडिगाहित्तए जाव णो आहारेज्जा' कृष्णपक्षस्य द्वितीयायां तिथौ द्वितीयदिवसे इत्यर्थः 'से' तस्याऽनगारस्य कल्पते चतुर्दश दत्तीर्भोजनस्य-भक्तौदनादेः प्रतिग्रहीतुम् चतुर्दश पानकस्य पानस्यापि चतुर्दशैव दत्तीः प्रतिग्रहीतुं कल्पते, तत्र यदि एतया सूत्रोक्तया एषणया एषयन् लभेत तदा-आहरेत् यदि नो लभेत तदा नो आहरेत् , इति । एवं जाव पणरसीए एगा दत्ती' एवम्-अनेन प्रकारेण यावत् तृतीयात आरभ्य क्रमश एकैकोनत्वेन पञ्चदश्यां तिथौ-अमावास्यायाम् एका दत्तिर्ग्रहीतव्या भवति, एकां दत्ति प्रतिग्रहीतुं कल्पते । तदनन्तरम् 'मुक्कपक्खस्स पाडिवर' शुक्लपक्षस्य प्रतिपत्तिथौ कल्पते साधोः वे दत्ती प्रतिग्रहीतुम्, 'वीयाए तिण्णि' द्वितीयायां तिस्रः 'जाव चउद्दसीए पणरस' यावत् तृतीयात आरभ्य क्रमश एकैकवृद्धया चतुर्दश्यां तिथौ पञ्चदश, 'पुण्णिमाए अभत्तद्वे
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy