________________
२३८
व्यवहारसूत्रे
वा अस्थमा वा जोत्रेण वा वेत्रेण वा कराया वा कायमाकुट्येत, तान् सर्वान् समुत्पन्नान् सम्यक् सहेत क्षमेत तितिक्षेत अधिसहेत ॥ सू० ३ ॥
भाष्यम् – वरमज्झं णं चंदपडिमं' वज्रमध्यां खलु चन्द्रप्रतिमाम्, तत्र-वज्रस्येव मध्यं यस्याः सा वज्रमध्या चन्द्राकारा - चन्द्रतुल्या प्रतिमा - वज्रमध्यचन्द्रप्रतिमा, वज्रवद् आदौ अन्ते च स्थूला, मध्ये तनुकेत्यर्थः । कृष्णपक्षचन्द्राऽनुसारित्वात् चन्द्रानुसारिणी भवति ।
अयं भावः-वज्रमध्यचन्द्रप्रतिमायां कृष्णपक्ष आदौ क्रियते तत एवं भावना - कृष्णपक्षस्य प्रतिपत्तिथौ चन्द्रविमानस्य चतुर्दश कला दृश्यन्ते, द्वितीयायां चन्द्रविमानस्य त्रयोदश कला दृश्यन्ते, तृतीयायां द्वादश यावत् चतुर्दश्याम् एकैव कला दृश्यते, अमावास्यायां तु एकापि कला चन्द्रविमानस्य न दृश्यते । ततः पुनरपि शुक्लपक्षस्य प्रतिपदि चन्द्रविमानस्यैका कला दृश्यते द्वितीयायां द्वे कले दृश्येते, तृतीयायां तिस्रः कला दृश्यन्ते, एवं यावत् पञ्चदश्यां पञ्चदशाऽपि कला दृश्यन्ते । तदयं मासः आदौ अवसाने च पृथुलो मध्ये तनुकः, वज्रमपि आदावन्ते च विपुलं मध्ये तनुकम् । एवंप्रकारेण श्रमणोऽपि भिक्षां गृह्णाति, कृष्णप क्षस्य प्रतिपदि चतुर्दश, द्वितीयायां त्रयोदश, तृतीयायां द्वादश यावत् चतुर्दश्यामेकैव, अमावास्यायाम् उपोषितो भवति । ततः पुनरपि शुक्लपक्षस्य प्रतिपदि एकां भिक्षां गृह्णाति, द्वितीयायां द्वे भिक्षे, तृतीयायां तिस्रो भिक्षाः यावत् पञ्चदश्यां पच्चदश । तत एषा कृष्णपक्षगतचन्द्राकारतया चन्द्रप्रतिमा आदावन्ते च विपुलतया मध्ये च तनुतया वज्रमध्योपमितमध्यभागा इति वज्रमध्यचन्द्रप्रतिमा भवतीति । एतादृशीं वज्रमध्यचन्द्रप्रतिमाम् 'पडिवन्नस्स' प्रतिपन्नस्य 'अणगारस्स' अनगारस्य साधोः 'णिच्चं मासं वोसटुकाए' नित्यं मासं मासपर्यन्तं व्युत्सृष्टकाये - परित्यक्त परिकर्मणि काये अत एव 'चियत्तदेद्दे' व्यक्त देहे त्यतात्मभावे देहे अनयोर्द्वयोः पदयोः सविस्तरमर्थो यवमध्य चन्द्रप्रतिमासूत्रे विलोकनीयः, एतादृशे देहे 'जे कइ परीसहोवसग्गा समुप्पज्जंति' ये केचित् परीषहोपसर्गाः शरीरविघातकाः परीषद्दाः उपसर्गाश्च समुत्पद्यन्ते - समागच्छन्ति तान् सर्वान् एव सोऽधिस हे ते - त्यग्रिमेण सम्बन्धः। ते के परीषहोपसर्गा इति तान् नामग्राहं दर्शयितुमाह - 'तंजहा' इत्यादि, तयथा - 'दिव्वा वा माणुस्सगा वा तिरिक्खजोणिया वा' इत्यादि, शेषं सर्व सूत्रं यवमध्यचन्द्रप्रतिमाबद् व्याख्येयम् ॥ सू० ३ ॥
पूर्वं वज्रमध्यचन्द्रप्रतिमायाः स्वरूपं प्रदर्शितम्, सम्प्रति तस्याः पालनप्रकारः प्रदर्श्यते - 'वरमज्यं णं' इत्यादि ।
सूत्रम् - वइरमज्झणं चंदपडिमं पडिवन्नस्स अणगारम्स बहुलपक्खस्स पाडिवए says पन्नरस दत्तीओ भोयणस्स पडिगाहित्तए - पन्नरस पाणगस्स, सव्वेहिं दुप्पयच उपयाइएहि आहारकंखीहि जाव णो आहारेज्जा | बितियाए से कप्पर चउद्दस दत्तीओ भोयणस्स, चउद्दस पाणगस्स पडिगाहित्तए जाव णो आहारेज्जा । एवं जाव पणरसीए