________________
भाष्यम् उ० १०. सू० ३
वज्रमध्यचन्द्रप्रतिमास्वरूपम् २३७ क्रमेण, 'अहाकप्पं यथाकल्पम्-सूत्रोक्तसाधुकल्पानतिक्रमेण, 'जाव अणुपालिया भवई' यावद् अनु पालिता भवति, यावत्पदेन यथामार्ग सम्यक्कायेन स्पर्शिता पालिता शोधिता तीरिता कीत्तिता आज्ञया, इत्येतेषां ग्रहणं भवति । तत्र यथामार्ग ज्ञान-दर्शन-चारित्रानतिक्रमण, सम्यग् निरतिचारं कायेन स्पर्शिता सेवनतः, पालिता जीवरक्षातः, शोधिता गुरुकथनानुसारतो निरतिचाराचरणतः, तीरितापर्यन्तं नीता, कीर्तिता-आचार्याणामने 'मया प्रतिमा संपादिता' इति निवेदिता, तीर्थकराणामाज्ञया अनुपालिता भवतीति ॥ सू० २॥
यवमध्यचन्द्रप्रतिमाकोष्ठकम्
शुक्लपक्षे प्रति. द्वि. तृ. च. पं. ष. स. अ. न. द. एका. द्वा. त्रयो. चतु. पूर्णिमा
१ २, ३, ४, ५, ६, ७, ८, ९, १०, ११, १२, १३, १४, १५
कृष्णपक्षे प्रति. द्वि. तृ. च. पं. प. स. अ. न. द. एका. द्वा. त्रयो. चतु. अमा.
। । । । । । । । । । । । । । । १४. १३, १२,११, १०, ९, ८, ७, ६, ५, ४, ३, २, १, ०
___ अभक्तार्थः
पूर्व शुक्लपक्षमाश्रित्य क्रियमाणा यवमध्यचन्द्रप्रतिमा प्रदर्शिता, साम्प्रतं-बहुलपक्षादारभ्य क्रियमाणां वज्रमध्यचन्द्रप्रतिमां प्रदर्शयति- 'वइरमझं णं' इत्यादि ।
सूत्रम्-'वइरमज्झं णं चंदपडिमं पडिवन्नस्स अणगारस्स णिच्चं मासं वोसट्टकाए चियत्तदेहे जे केइ परिसहोवसग्गा समुप्पज्जति तंजहा-दिव्वा वा माणुस्सगा वा तिरिक्खजोणिया वा अणुलोमा वा पडिलोमा वा । तत्थ अणुलोमा ताव वंदेज्जा वा नमंसेज्जा वा-सक्कारेज्जा वा संमाणेज्जा वा कल्याणं मंगलं देवयं चेइयं पज्जुवासेज्जा । पडिलोमा अन्नयरेणं दंडेण वा अद्विणा वा जोत्तेण वा वेत्तेण वा कसेण वा काए आउद्देज्जा ते सव्वे उप्पन्ने सम्मं सहेज्जा खमेज्जा तितिक्खेज्जा अहियासेज्जा ॥सू० ३॥
छाया-वज्रमध्यां खलु चन्द्रप्रतिमां प्रतिपन्नस्याऽनगारस्य नित्यं मार्स व्युत्सृष्ट काये त्यक्तदेहे ये केचित् परीषहोपसर्गाः समुत्पद्यन्ते तद्यथा-दिव्या वा-मानुषका वा तिर्यग्योनिका वा अनुलोमा वा प्रतिलोमा वा, तत्राऽनुलोमा तावत् वन्देत नमस्येत् सत्कारयेत् संमानयेत् कल्याणं मङ्गलं दैवतं चैत्यं पर्युपासेत । प्रतिलोमा अन्यतरेण--दण्डेन