________________
२३६
व्यवहारसूत्रे
पूर्वेण सम्बन्धः । तदा कथं कल्पते ? इत्याह- 'अह पुण एवं जाणेज्जा' अथ पुनरेवं जानीयात् - 'एगं पायं अंता किच्चा' एकं पादमन्तर्द्वारस्य कृत्वा, 'एगं पायं बाहि किच्चा' एकं पादमेल्लुकस्य-द्वारस्य बहिः– बहिर्भागे कृत्वा 'एलुयं विक्खभत्ता' एलुकं - गृहद्वारं विष्कम्भयित्वा द्वयोश्चरणयोर्मध्ये कृत्वा ददव्या हस्तात्कल्पते, 'एयाए एसणाए एसमाणे लभेज्जा एतया एषणया एषयन् यदि लभेत, तदा ' आहा रेज्जा' आहरेत्- आहारं कुर्यात् तादृशमन्नपानादिकं ग्रहीतुं कल्पते इति भाव: 'एयाए एसणाए एसमाणे णो लभेज्जा णो आहारेज्जा' एतया एषणया एषयन् यदि नो लभेत तदा नो आहरेत् आहारं नो कुर्यात् । एषः प्रथमदिनभिक्षाग्रहणविधिरुक्तः, एवंरी - त्यैव द्वितीयादितिथिविषयेऽपि योजनीयमिति । एवम् 'बिइयाए से कप्पर दोणि दत्तीओ भोणस पडिगाहित्तए दो पाणगस्स' द्वितीयायां तिथौ 'से' तस्य यवमध्यचन्द्रप्रतिमां प्रतिपन्नस्याऽनगारस्य कल्पते द्वे दत्ती भोजनस्य - भक्तौदनादेः प्रतिग्रहीतुं तथा द्वे दत्ती पानकस्य प्रतिग्रहीतुम् । कदा-कल्पते ? तत्राह - - ' सव्वेहिं दुप्पयच उप्पयाइएहिं आहारकंखीहिं सत्तेहिं पडिनियत्तेर्हि' सर्वेषु द्विपदचतुष्पदादिषु आहारकाङ्क्षिषु सत्वेषु - प्राणिषु प्रतिनिवृत्तेषु अनाउंछं सुद्धोवह जाव नो आहारेज्जा' अज्ञातोळं शुद्धोपहृतं यावत् नो आहरेत्, इत्यादि पदानि प्रतिपदालाप कोक्तवद् व्याख्येयानि ।
' एवं तइयाए तिणि जाव पण्णरसीए पण्णरस' एवं तृतीयायां तिथौ तिम्रो यावत् पञ्चदश्यां पञ्चदश, पूर्वोक्तक्रमेण एकैकां दत्ति वर्द्धयन् पञ्चदश्यां - पूर्णिमायां पञ्चदश दत्तीभजनस्य, पञ्चदश पानकस्य प्रतिग्रहीतुं कल्पते ।
मासस्य शुक्लपक्षे दत्तीनां वर्द्धमानतामुपदर्थ मासस्य कृष्णपक्षे दत्तीनां ह्रासतां दर्शयितुमाह – 'बहुलपक्खस्स' इत्यादि, 'बहुलपक्खस्स पाडिवर से कप्पर चोदस दत्तीओ' बहुलपक्षस्य - कृष्णपक्षस्य प्रतिपदि प्रथमदिवसे तस्य - यवमध्यचन्द्रप्रतिमां प्रतिपन्नस्याऽनगारस्य चतुर्दश दत्तोर्भोजनस्य तथा चतुर्दश दत्तीः पानकस्य प्रतिग्रहीतुं कल्पते इति भावः । एवम् 'बीयाए तेरस' द्वितीयायां त्रयोदश 'जाव' यावत् यावत्पदेन तृतीयायां द्वादश, चतुर्थ्यामेकादश, पञ्चम्याम् दश, एवं क्रमेण हापयन् 'चोदसीए एगं दर्त्ति भोयणस्स' चतुर्दश्यामेकां दत्ति भोजनस्य 'एगं दर्त्ति पाणगस्स' एकां दत्ति पानकस्य प्रतिग्रहीतुं कल्पते । कदा ? इत्याह – 'दुप्पयचउप्पयाइए हिं' द्विपदचतुष्पदादिषु भोजनकाङ्क्षिषु सत्त्वेषु - प्राणिषु प्रतिवृत्तेषु, इत्यादि 'जाव नो आहारेज्जा' यावत् नो आहरेत्, एतया एषणया एषयन् लभेत आहरेत, एतया एषणया नो लभेत नो आहरेदिति पूर्ववद् व्याख्येयम्, ततः 'अमावासाए से य अभतट्टे भवइ' अमावास्यायां -मासस्य चरमे दिवसे स च अभक्तार्थः, न भक्कमभक्तं - भोजन राहित्यं तदेव प्रयोजनं यस्य सोऽभक्तार्थः, उपोषितो भवतीति । ' एवं खलु एसा एवमुपर्युक्तप्रकारेण एषा - पूर्वप्रदर्शिता यवमध्यचन्द्रप्रतिमा 'अहासुतं'
जवमज्झचंदं पडिमा ' यथासूत्रम् - सूत्रानति -