________________
भाष्यम् उ० १० सू० २
यवमध्यचन्द्रप्रतिमास्वरूपम् २३५
वास्यायां चोपोषितो भवति, चतुर्थभक्तं करोतीत्यर्थः । ततश्चचन्द्राकारतया चन्द्रप्रतिमा आदावन्ते च भिक्षायास्तनुत्वात् मध्ये विपुलत्वात् यवमध्योपमितमध्यभागा, एवम्भूतां यवमध्यचन्द्रप्रतिमाम् 'पडिवन्नस्स' प्रतिपन्नस्य 'अणगारस्स' अनगारस्य - साधोः स्वीकृतयवमध्यचन्द्रप्रतिमस्य भिक्षोः, 'सुक्कपक्खस्त पाडिवए' शुक्लपक्षस्य प्रतिपत्तिथौ ' कप्पड़' एगं दत्तिं भोगणस्स पडिगाहित्तए' कल्पते एकां दति भोजनस्य प्रतिग्रहीतुम्, तथा - ' एगं पाणगस्स' एकां दत्ति पानकस्य प्रतिग्रहीतुं कल्पते । कदा कल्पते ? इत्याह- 'सव्वेहिं' इत्यादि, 'सव्वेहिं दुप्पयच उप्पयाइएहिं आहारकं वीहिं सत्तेहिं पडिणियत्तेहिं' सर्वैर्द्विपदचतुष्पदादिभिराहारकाङ्क्षिभिः सत्त्वैः--प्राणिभिः आहारं कृत्वा प्रतिनिवृत्तैः अत्र सप्तम्यर्थे तृतीया प्राकृतत्वात् तेन सर्वेषु द्विपदचतुष्पदादिषु आहारकाङ्क्षिषु सत्त्वेषु प्रतिनिवृत्तेषु सत्सु इत्यर्थः ।
अयं भावः - : - तस्मिन् समये साधुर्भिक्षार्थं गच्छेत् यदा सर्वेऽति द्विपदचतुष्पदादयो जीवा आहारकांक्षिणः आहारं कृत्वा प्रतिनिवृत्ता भवेयुस्तदवसरे साधुर्भिक्षार्थं परिभ्रमेदिति । कीदृशमाहारं गृह्णीयात्तत्राह-'अन्नायउंछं' अज्ञातोंछम्, अज्ञातस्य - अपरिचितकुलस्य उञ्छम् - अल्पमल्पं 'सुद्धोवहड़' शुद्धोपहृतम् निद षमाहारं दातुमुत्थापितम्, यद्वा शुद्धेन - सचित्तादिसंपर्करहितेन गृहस्थेन उपहृतम्–दातुं हस्ते गृहीतं तत् अन्यस्मै दत्त्वा अवशिष्टं स्याद्भवेत् । 'निज्जू हित्ता बहबे समण-माहण-अहि- किवण- वणीमगा' बहून् श्रमण - माहना ऽतिथि - कृपण-वनीपकान्, तत्रश्रमणः-शाक्य भेक्षुः, माहनो भिक्षावृत्तिको ब्राह्मणः, अतिथिः - प्राघुर्णकादिः, कृपणः दीनः, वनीपको - याचकः, इत्येतान् सर्वान् निर्यूह - - भिक्षाग्रहणप्रवृत्तान् वर्जयित्वा यदा ते भिक्षां गृह्णन्तो भवेयुस्तदा तत्र साधुना निक्षार्थं न गन्तव्यमिति भावः । तत्समये तत्र गतस्य 'कप्पड़ से एगस्स भुंजमाणस्स पडिगाहित्तए' कल्पते तस्य गृहस्थगृहे प्रविष्टस्य, तत्र एकस्य भुञ्जानस्य प्रतिग्रहीतुम्, एक एव पुरुषो या भुङ्क्ते तस्य हस्तादेवान्नपानादिकं प्रतिग्रहीतुं कल्पते किन्तु - 'नो दोण्हं नो तिह नो द्वयोः पुरुषयोर्भुञ्जानयोस्त्रयाणां वा भुञ्जानानाम् एवम्- 'नो चउन्हें नो पंचहे ' नो चतुर्णां नोवा पञ्चानां हस्ताद् भिक्षां प्रतिग्रहीतुं कल्पते, एवम् 'नो गुव्विणीए' नो गुर्विण्या गर्भवत्या हस्त त् 'नो बालबच्छाए' नो बालवत्सायाः यस्य बालोऽव्यक्तः, स न तस्या विरहे तिष्ठति एतादृश्या हस्तात्, एवम्- 'नो दारंग पेज्जमाणीए' नो दारकं पाययन्त्याः - बालकं स्तन्यं धायन्त्याः, या स्त्री बालकं स्तन्यं पायर्याति तद्धस्तादपि भिक्षां ग्रहीतुं न कल्पते, पुनश्च 'नो से कप्पइ अंतो एलयस्स दोवि पाए साहदटु दलमाणीए' न तस्य श्रमणस्य कल्पतेऽन्तर्मध्ये एलुकस्य - गृहदेहल्याः द्रावपि पादौ - चरणौ संहृत्य - स्थापयित्वा ददत्याः, गृहद्वाराभ्यन्तरे पादद्वयं संहृत्य या भिक्षां ददाति तद्धस्तादपि नो ग्रहीतुं कल्पते 'नो बाहिं एलुयस्स दोवि पाए साहहु दलमाणीए' नो-न वा बहि: - बहिर्भागे एलुकस्य - गृहद्वारस्य द्वावपि पादौ संहृत्य भिक्षां ददत्याः, गृहस्य बहिर्भागे चरणद्वयं स्थापयित्वा या भिक्षां ददाति तद्धस्तादपि ग्रहीतुं न कल्पते इति