________________
२३४
व्यवहारसूत्रे बहुलपक्खस्स पाडिवए से कप्पइ चोदसदत्तीओ, बीयाए तेरस जाव चोदसीए एग दत्ति भोयणस्स एगं पाणगस्स सव्वेहिं दुप्षयचउप्पयाइएहिं जाव नो आहारेज्जा, अमावासाए से य अभत्तठे भवइ । एवं खलु एसा जवमज्झचंदपडिमा अहासुत्तं अहाकप्पं अहामग्गं सम्मं कारणं फासिया-पालिया सोहिया तीरिया किटिया आणाए अणुपालिया भवइ ॥ सू० २॥
छाया-यवमध्यां खलु चन्द्रप्रतिमां प्रतिपन्नस्याऽनगारस्य शुक्लपक्षस्य प्रतिपदि कल्पते एकां दत्ति भोजनस्य प्रतिग्रहीतुम् एकां पानकस्य सर्वद्विपदचतुष्पदादिभिराहारकांक्षिभिः सत्त्वैः प्रतिनिवृत्तैः अज्ञातोंछ शुद्धोपहृतं निर्युह्य बहून् श्रमण-माहना-ऽतिथिकृपण-वनीपकान , कल्पते तस्यैकस्य भुजानस्य प्रतिग्रहीतुम् नो द्वयोः नो त्रयाणाम् नो चतुर्णाम् नो पञ्चानाम् , नो गुर्विण्याः नो बालवत्सायाः नो दारकं पाययन्त्याः, नो तस्य कल्पते, अन्तरेलुकस्य द्वावपि पादौ संहृत्य ददत्याः, नो बहिरेलुकस्य द्वावपि पादौ संहृत्य ददत्याः, अथ पुनरेवं जानीयात् एकं पादमन्तः कृत्वा-एकं पादं बहिः कृत्वा एलुकं विष्कम्भयित्वा एतया एषणया एषयन् लभेत आहरेत्, एतया एषणया एषयन् नो लभेत नो आहरेत् । द्वितीयायां तस्य कल्पते द्वे दत्ती भोजनस्य प्रतिग्रहीतुम् द्वे पानकस्य सर्वैः द्विपदचतुष्पदादिभिर्यावन्नो आहरेत् । एवं तृतीयायां तिम्रो यावत् पञ्चदश्यां पञ्चदश। बहुलपक्षस्य प्रतिपदि तस्य कल्पते चतुर्दश दत्तीः, द्वितीयायां त्रयोदश यावच्चतुर्दश्यामेकां दत्ति भोजनस्य, एकां पानकस्य सर्वैद्विपदचतुष्पदादिभिर्यावत् नो हरेत्, अमावास्यायां स चाभक्तार्थों भवति । एवं खलु एषा यवमध्यचन्द्रप्रतिमा यथासूत्र यथाकल्पं यथामार्ग सम्यक कायेन स्पर्शिता पालिता शोधिता तीरिता कीर्तिता आशयाऽनुपालिता भवति ॥ सू०२॥
भाष्यम्-'जवमझं णं चंदपडिम' यवमध्यां खलु चन्द्रप्रतिमाम् , यवमध्यचन्द्रप्रतिमायाः यवेन चन्द्रेण चोपमा यववन्मध्यभागः-पृथुलो यस्या सा यवमध्या । तथा चन्द्राकारा प्रतिमा चन्द्रप्रतिमा- चन्द्रानुसारिणीत्यर्थः ।
अयं भावः-शुक्लपक्षस्य प्रतिपत्तिथौ चन्द्रविमानस्य पञ्चदशभागीकृतस्य एकैव कला दृश्या भवति, द्वितीयायां तिथौ द्वे कले चन्द्रविमानस्य दृश्येते, तृतीयायां तिस्रः, एवं पूर्णिमायां परिपूर्णाः पञ्चदशाऽपि कलाः दृश्यन्ते । ततः कृष्णपक्षस्य प्रतिपदि एकया कलया होनो दृश्यते चन्द्रस्य चतुर्दश कला दृश्यन्ते इत्यर्थः । द्वितीयायां तिथौ त्रयोदश कला दृश्यन्ते, तृतीयायां द्वादशैव, यावदमावास्यायामेकाऽपि कला न दृश्यते । तदेवमयं मासः आदौ ऊनः मध्ये संपूर्णः अन्ते पुनरपि परिहीनः । यद्वा-आदावन्ते च तनुको मध्ये विपुलः । एवं भिक्षुकोऽपि शुक्लपक्षस्य प्रतिपदि तिथौ एकां दत्तिं भिक्षाया गृह्णाति, द्वितीयायां शुक्लपक्षस्य हे गृह्णाति, तृतीयायां तिस्रो दत्तीः गृह्णाति यावत् पञ्चदश्यां पञ्चदश दत्तीहाति । कृष्णपक्षस्य प्रतिपदि पुनश्चतुर्दश दत्तीगुहाति, द्वितीयायां त्रयोदश, एवं क्रमेण यावत् चतुर्दश्याभेकैकोनत्वेन एका दतिं गृह्णातीति तेन अमा.