________________
भाग्यम् उ० १० सु० २
यवमध्यचन्द्रप्रतिमास्वरूपम् २३३ कल्याणकरं, मङ्गलं-मङ्गलस्वरूपं, दैवतं-धर्मदेवस्वरूपं, चैत्य-ज्ञानस्वरूपं भवन्तं पर्युपासे' इत्युक्त्वा पर्युपासेत-समीपोपवेशनादिरूपामुपासनां कुर्यात् । ननु अनुलोमास्तु मनोगम्या भवन्ति तथाऽप्येते उपसर्गाः कथं भवेयुः, उपसर्गास्तु पीडोत्पादका भवन्तीत्यत्राह-प्रतिमाप्रतिपत्तितश्चलितकरणहेतुकत्वादात्मनो भावपीडोत्पादकत्वादेते उपसर्गशब्देन संबोधिता भगवतेति । 'पडिलोमा' प्रतिलोमाः-प्रतिकूला उपसर्गास्तावत् 'अन्नयरेण' अन्यतरेण ताडनसाधनानां मध्ये केनापि-अन्यतरेण एकेन, तथाहि-'दंडेण वा' दण्डेन वा-लकुटेन, 'अट्टिणा वा' अस्थना वा अस्थिरूपताडनसाधनेन, 'जोत्तेण वा' जोत्रेण वा--जोत्रमिति गोबलीवर्दादिबन्धकस्थूलदवरिकारूपेण 'वेत्तेणवा' वेत्रेण वा 'बेंत' इति लोकप्रसिद्धेन वा । 'कसेण वा' कशया वा 'चाबूक' इति लोकप्रसिद्धेन वा, एतादृशैस्ताडनसाधनभूतैः वस्तुभिः साधोः 'काएआउद्देज्जा' कायं--शरीरम्-आकुटयेत् ताड़येत् 'ते सव्वे उप्पन्ने' तान्-उपर्युक्तान् सर्वान् एव समुपस्थितान् 'सम्म' सम्यग् मनोमालिन्यराहित्येन 'सहइ' सहते सहनं करोति 'खमइ क्षमते सत्यामपि निवारणशक्तौ क्षमा करोति 'तितिक्खेई' तितिक्षते-निर्जराभावेन सहते 'अधियासेइ' अधिसहते अधि-निश्चलभावेन वासीचन्दनवृक्षवत् सहते । उक्तञ्च
वासीचंदणकप्पो, जह रुक्खो इय सुहदुहसमो उ ।
रागद्दोसविमुक्को, सहइ अणुलोम-पडिलोमे ॥ १॥ इति ॥ छाया-वासीचन्दनकल्पो, यथा वृक्ष इति सुखदुःखसमस्तु ।।
रागद्वेषविमुक्तः, सहते अनुलोम-प्रतिलोमान् ॥ १ ॥ इति ।। सू० १॥ मथ-यवमध्यचन्द्रप्रतिमायाः प्रतिपत्तिस्वरूपं प्रदर्शयति – 'जवमझं णं' इत्यादि ।
सूत्रम्-जवमझं णं चंदपडिमं पडिवरन्नस्स अणगारस्स सुक्कपक्खस्स पाडिवए कप्पइ एगं दत्तिं भोयणस्स पडिगाहित्तए एगं पाणगस्स, सम्वेहिं दुप्पयचउप्पयाइएहिं आहारकंखीहि सत्तेहिं पडिनियत्तेहिं अन्नायउंछं सुद्धोवहडं णिज्जूहित्ता बहवे समणमाहण-अइहि-किवण-वणीमगा. कप्पइ से एगस्स भुंजमाणस्स पडिगाहित्तए नो दोण्ह नो तिण्हं -नो चउण्डं नो पंचहं नो गुन्विणीए नो वालवच्छाए नो दारगं पेज्जमाणीए । नो से कप्पइ अंतो एलुयस्स दोवि पाए साहटु दलमाणीए. नो वाहिं एलुयस्स दोवि पाए साहटु दलमाणीए, अह पुण एवं जाणेज्जा एगं पायं अंतो किच्चा एगं पायं बाहिं किच्चा एलुयं विक्खंभइत्ता एयाए एसणाए एसमाणे लभेज्जा आहारेज्जा, एयाए एसणाए एसमाणे नो लभेज्जा नो आहारेज्जा बिइज्जाए से कप्पइ दोण्णि दत्तीओ भोयणस्स पडिगाहित्तर दोणि पाणगस्स, सव्वेहिं दुप्पयचउप्पयाइएहिं जाव नो आहारेज्जा । एवं तइयार तिण्णि जाव पण्णरसीए पणरस ।