________________
२३२
व्यवहारस्त्रे चन्द्रप्रतिमाया यवेनोषमा चन्द्रेण चोपमा, यवस्येव मध्यं पृथुलत्वेन यस्याः सा यवमध्या चन्द्राकारा प्रतिमेति व्युत्पत्तेः । एवं वनमध्यचन्द्रप्रतिमायाः वज्रेण 'चन्द्रेण च सादृश्यम् वज्रवद् मध्यभागस्तनुकत्वेन यस्याः सा वजमध्या चन्द्राकारा प्रतिमा वज्रमध्यचन्द्रप्रतिमा, इत्येवं द्विप्रकारिके प्रतिमे इति । तत्र-'जवमझं णं चंदपडिमं पडिवन्नस्स अणगारस्स' यवमध्यां खलु चन्द्राकारां प्रतिमां प्रतिपन्नस्य-प्राप्तस्य-प्रतिपन्नयवमध्यचन्द्रप्रतिमस्याऽनगारस्य भिक्षोः 'निच्चं मासं' नित्यं-सदा दिवा रात्रौ मासम् एकमासं यावत् यावान् प्रतिमाकालस्तावत्कालपर्यन्तम् 'वोसहकाए' व्युत्सृष्टकाये व्युत्सृष्टः ममत्वाभावेन विसर्जितः एतादृशश्चासौ कायश्च अस्थ्यादिचयात्मकत्वात्कायः शरीरमिति व्युत्सृष्टकायस्तस्मिन् ममत्ववर्जिते शरीरे इत्यर्थः । व्युत्सृष्टकायो द्विविधः-द्रव्यतो भावतश्च, तत्र द्रव्यतो मलमलिनोऽप्यकृतस्नानः विभूषावर्जितः भूमिशायित्वादिरूपः, भावतो-व्युत्सृष्टकायो यो वातिक-पैत्तिक-श्लैष्मिकरोगातकैः स्पृष्टोऽपि कायममत्वाभावान्न काञ्चिदपि औषधभैषज्यादिना कायविषयां परिचारणादिरूपां चिन्तां करोति यः, एतादृशे ममत्ववर्जिते काये, यतो व्युत्सृष्टकायस्ततः 'चियत्तदेहे' त्यक्तदेहे कायममत्वरहितत्वेन त्यक्त इव त्यक्तश्चासौ देहश्च तस्मिन् त्यक्तदेहभावे परिणतात्मभावे शरीरे । एतादृशं देहं यदि कोऽपि हन्याद् बध्नीयात्, रुन्ध्यात् , ताडयेद्वा तथापि तं न निवारयति प्रत्युत धृतनिर्जराभाव एवं विभावयति-'नेदं शरीरं मम, शरीरमन्यद् अहं चान्योऽतः को मां मारयितुं शक्नोति अजरामरोऽहम् एतेन वघबन्धनादिना मम कर्मनिर्जरा भवति' इति भावनया भावितस्यानगारस्य तादृशे देहे 'जे केइ परीसहोवसग्गा' ये केचित् परीषहोपसर्गाः पहीषहाश्च उपसर्गाश्चेति परीषहोपसर्गाः, तत्र परोषहाः-क्षुत्पिपासादयो द्वाविंशतिविधाः, उपसर्गा देवादिकृतास्त्रिविधाः 'समुप्पज्जति' समुत्पद्यन्ते उपस्थिता भवन्ति, के ते उपसर्गाः ! इति उपसर्गान् प्रदर्शयति - 'दिव्वा वा मणुस्सगा वा तिरिक्खजोणिया वा' दिव्या वा मानुष्यका वा तैयग्योनिका वा, तत्र दिव्या-देवकृता भापनसंहरणादयः, मानुष्यका वधबन्धनादयः, तैर्यग्योनिकाः श्वापदादिकृताः, एते त्रिविधा अपि उपसर्गास्तस्मिन् त्यक्तममत्वे देहे समुत्पद्यन्ते । त इमे त्रयोऽपि परीषहोपसर्गाः प्रत्येकं चतुर्धा भवन्ति, सर्वसङ्कलनया द्वादश, तत्र दिव्या उपसर्गाश्चत्वारः-हासात् प्रद्वेषात् विमर्शतो विमात्रातो वा । एवं मनुष्यकृता अपि चत्वारः-हासात् प्रद्वेषात् विमर्शात् कुशीलप्रतिसेवनात् । तैरश्चा अपि चतुर्विधाः-भयात् प्रद्वेषतः, आहारकारणाद् , अपत्यरक्षाकारणतश्चेति भवेयुः ।
ते पुनः 'अणुलोमा वा' अनुलोमाः-प्रीतिकरा उपसर्गाः, 'पडिलोमा' प्रतिकूला वा । 'तत्थ अणुलोमा ताव' तत्राऽनुलोमप्रतिलोमोपसर्गयोर्मध्ये येऽनुलोमा देवादिकृताः तावत् कोऽपि देवादिः प्रतिमाभ्रंशकरणार्थ साधुम् 'वंदेज्जा' वन्देत वन्दनं कुर्यात् 'नमंसिज्जा' नमस्येत्-नमस्कारं कुर्यात् 'सक्कारेज्जा' सत्कारयेत्-साधोः सत्कारं कुर्यात् 'संमाणेज्जा वा' सम्मानयेत्-संमानं वा कुर्यात् 'कल्याणं मंगलं देवयं चेइयं पज्जुपासेज्जा' कल्याणं