SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ ॥ अथ दशमोदेशकः ॥ तदेवं नवममुद्देशं व्याख्याय संप्रति - दशमोदेशकः प्रारभ्यते, अस्य दशमोद्देशकप्रथम. सूत्रस्य नवमोदेशकचरमसूत्रेण सह कः सम्बन्धः ! इत्याह भाष्यकार : - 'पुव्वं ओग्गहियाभिह' इत्यादि । गाहा - पुवं ओग्गहियाभिह, अभिग्गहो देसिओ चरमसुते । पडिमा अभिग्गहो इह, वुच्चर एसेव संबंधो ॥ भा० गा० ॥ १ ॥ छाया - पूर्वम् अवग्रहिताभिधः अभिग्रहो देशितश्चरमसूत्रे । प्रतिमाभिग्रह इह, प्रोच्यते एष एव सम्बन्धः ॥ भा० गा० १ ॥ व्याख्या - पूर्वमिति पूर्वं नवमोद्देशकस्य चरमसूत्रे अवग्रहिताभिधः अवग्रहितनामकः अभिग्रहो देशितः कथितः । इह - दशमोदेशकस्य प्रथमसूत्रे प्रतिमाऽपि अभिग्रह एवेति कृत्वा प्रतिमाभिग्रहः यवमध्य - वज्रमध्य - चन्द्रप्रतिमाद्वयरूपोऽभिग्रहः प्रोच्यते तत एष एव संबन्धो नवमदशमोदेशकयोरिति ॥ भा० गा० १ ॥ अनेन संबन्धेनाऽऽयातस्यास्य दशमोदेशकस्येदमादिमं सूत्रम् - 'दो पडिमाओ' इत्यादि । सूत्रम् - दो पडिमाओ पन्नत्ताओ तं जहा - जवमज्झा य चन्दपडिमा वइरमज्झा य चंदपडिमा । जवमं णं चंदपडिमं पडिवन्नस्स अणगारस्स निच्चं मासं वोसट्टकाए चियदेहे जे के परीसहोवसग्गा समुप्पज्जंति दिव्वा वा मणुस्सगा वा तिरिक्खजोणिया अणुलोमा वा पडिलोमा वा, तत्थ अणुलोमा ताव वंदेज्जा वा नर्मसिज्जा वा सक्का - रेज्जा वा सम्माणेज्जा वा कल्लाणं मंगलं देवयं चेइयं पज्जुपासेज्जा, पडिलोमा ताव अन्नयरेणं दंडेण वा अट्ठिणा वा जोत्तेण वा वेत्तेण वा कसेण वा काए आउट्टेज्जा ते सव्वे उपपन्ने सम्मं सहइ खमइ तितिक्खर अहिया सेइ ॥ सू० १ ॥ छाया - द्वे प्रतिमे प्रज्ञप्ते तद्यथा - यवमध्यचन्द्रप्रतिमा च वज्रमध्यचन्द्रप्रतिमा च । यवमध्यां खलु चन्द्रप्रतिमां प्रतिपन्नस्याऽनगारस्य नित्यं मासं व्युत्सृष्टकाये त्यक्तदेहे ये केचित्परीषहोपसर्गाः समुत्पद्यन्ते दिव्या वा मानुषका वा तैर्यग्योनिका वा - अनुलोमा वा प्रतिलोमा वा, तत्राऽनुलोमा तावद् वन्देत वा नमस्येद् वा सत्कारयेद्वा संमानयेद् वा कल्याणं मङ्गलं दैवतं चैत्यं पर्युपासेत, प्रतिलोमा तावत् अन्यतरेण दण्डेन वा अस्था वा जोत्रेण वा वेत्रेण वा कशया वा कायम् आकुटयेत् तान् सर्वान् उत्पन्नान् सम्यक् सहते क्षमते तितिक्षते अधिसहते ॥ सू० १ ॥ भाष्यम् -'दो पडिमाओ पन्नत्ताओ' - द्विप्रकारिके प्रतिमे प्रज्ञप्ते कथिते, तत्र प्रतिमाया द्वैविध्यं दर्शयितुमाह- 'तं जहा' इत्यादि 'तं जहा' तथथा - 'जवमज्झा य चंद पडिमा वरमज्झा य चंदपडिमा ' यवमध्या च चन्द्रप्रतिमा वज्रमध्या च चन्द्रप्रतिमा, तत्र - यवमध्य
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy