________________
व्यवहार छाया--पके पुनरेवमाहुः-द्विविधमवग्रहितं प्राप्तम्, तद्यथा-यच्चावगृह्णाति यच्चाऽऽस्यके प्रक्षिपति ॥ सू० ४७ ॥
भाष्यम्- 'एगे पुण एवमाइंसु' एके पुनराचार्या अवग्रहितविषये एवं वक्ष्यमाणप्रकारेण आहुः कथयन्ति । तथाहि-'दुविहे 'ओग्गहिए पन्नत्ते' द्विविधं द्विप्रकारकमवग्रहितं प्रज्ञप्तं कथितं भगवता, अवग्रहितं नाम अवग्रहविशेषः 'तंजहा' तद्यथा 'जं च ओगिण्हई' यच्चा वगृह्णाति भोजनार्थ स्थापयति, 'जं च आसगंसि पक्खिबई' यच्चाऽऽस्यके मुखे प्रक्षिपति तत् , एव मवग्रहितं द्विविधं भवतीति ॥
ननु पूर्वमत्रावग्रहितं यच्चावगृह्णाति, यच्च संहरति यच्चास्ये प्रक्षिपतीति त्रिविधमुक्त्वा पुनरत्र द्विविधं प्रोकम् तत्कथं शास्त्रे वाक्यद्वैविध्यम् ? अत्राह–अत्र :यद् वाक्यद्वैविध्यं तदादेशान्तरेण भवति । आदेशो नाम यद् बहुश्रुतैराचीर्ण, न च तदन्यैर्युगप्रधानैर्वाधितं भवेत् स भवति नाम आदेश इत्येषः शास्त्रसंमतत्वाद् ग्राह्यः ततो नात्र वाक्यद्वैविध्यं शङ्कनीयमिति ।
___पुनः शङ्कते अत्र यदुक्तम् ‘जं च आसगंसि पक्खिवइ' अस्यायमर्थः यद् आस्यके मुखे प्रक्षिपति तद् गृह्णातीति तदुच्छिष्टं भवेदिति लोके साधोरवहेलना भवेत् यदयं साधुरुच्छिष्टं भुङ्क्ते इति तत् कथं तद् गृह्यते ? अत्राह-मुखे इति स्वमुखे प्रक्षिपतीति न, भोक्तुमुपविष्टानां दत्त्वा परिवेषकोऽवशिष्टं भोजनजातं भूयो भोजनस्थापनपात्रस्य पिठरादेर्मुखे प्रक्षिपति, तत्प्रक्षिपन् साधवे दद्यात् तद् गृह्णातीत्यर्थोऽवसेयः। ततः पिठरादिमुखमधिकृत्येदं सूत्रं प्रवर्तितम् ॥ सू० ४७॥
इति श्री-विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापक___ प्रविशुद्धगधपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त
"जैनाचार्य" पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्म-दिवाकर-पूज्यश्री-घासीलालवति-विरचिताया "व्यवहारसूत्रस्य"
भाष्यरूपायां व्याख्यायां नवमोदेशः समाप्तः ॥९॥