________________
भाष्यम् उ० ९ सू० ४५-४७
उपहृतादिभिक्षाभिग्रहधारिस्वरूपम् २२९
भाष्यम् - उपहृताभिग्रही स उपहृतं गृह्णाति तत् 'तिविह' त्रिविधं - त्रिप्रकारकम् 'उवहडे पन्नत्ते' उपहृतं प्रज्ञप्तम् कथितम्, उप समीपे - अन्यस्य भोक्तुः समीपे परिवेषणार्थं हृतम् गृहीतम् उपहृतं कथ्यते, तत् त्रिविधं प्रज्ञप्तम् तंजहा' - तद्यथा 'सुद्धोवहडे' शुद्धोपहृतम् १, 'फलिहोवहडे' फलिकोपहृतम् २, 'संसट्ठोवह डे' संसृष्टोपहृतम् ३, तत्र शुद्धोपहृतं यथा - यदि व्यञ्जनरहितं केवलं तण्डुलादिकं गृहीत्वा दास्यति तदा ग्रहीष्यामीति शुद्धोपहृतम् १ | फलिकोपहृतं यथा फलिकं काष्ठपात्रम्, यदि काष्ठपात्रे गृहीत्वा दास्यति तदा ग्रहीष्यामि इति फलिकोपहृतम् २ | संसृष्टोपहृतं यथा - यदि 'शाकादिखरंडितपात्रे गृहीत्वा दास्यति तदा ग्रहीष्यामीति संसृष्टोप - तम् ३ । एतत्त्रिविधमुपहृतमुपहृताभिग्रहधारी भिक्षारूपेण गृह्णातीति ॥
अथ शुद्धादिपदानामर्थमाह- अत्र खलु यत् अलेपकृतं काञ्जिकेन पानीयेन वा न सन्मिश्रीकृतं तत्-शुद्धम्, अथवा व्यञ्जनादिरहितं शुद्धोदनं शुद्धम् । तच्च नियमतोऽलेपकृतम् १ । फलिकं नाम यत् काष्ठपात्रे गृहीतम्, अथवा फलितमिति व्यञ्जनैर्नानाप्रकारकै भौज्यवस्तुभिर्विरचितमिति २ । संसृष्टं नाम-भोक्तुकामेन गृहीतम्, यत् स्थाले परिवेषितम् ततो ग्रहणाय हस्ते, क्षिप्तो न तुमुखे प्रक्षिपति, अत्रान्तरे भिक्षार्थं कश्चित् साधुः समागतः यत् शाकादिना लेपकृतमलेपकृतं वा तत् संसृष्टमिति कथ्यते ३ । उपहृतं तु यद् भोक्तुकामेन गृहीतं तदुपहृतमित्युच्यते ॥ सू० ४५ ॥ अथावप्रहिताभिग्रहस्वरूपमाह - 'तिविहे' इत्यादि ।
सूत्रम् - तिविहे ओग्गहिए पण्णत्ते, तं जहा - जं च ओगिण्हइ जं च साइरह जं च आसगंसि पक्खिव एगे एवमाहंसु || सू० ४६ ॥
छाया - त्रिविधमवग्रहितं प्रज्ञप्तम्, तद्यथा - यदवगृह्णाति यच्च संहरति यच्च आस्यके प्रक्षिपति, एके एवमाहुः ॥ सू० ४६॥
भाग्यम् – 'तिविहे' त्रिविधम् - त्रिप्रकारकम्, 'ओग्गहिए पण्णत्ते' अवग्रहितम्, अबग्रहितं नाम अभिग्रहविशेषः प्रज्ञप्तं - कथितम् 'तं जहा ' तद्यथा - 'जं च ओगिण्हइ' यच्चाऽवगृह्णाति - भोज - नार्थं गृह्णाति, ‘जं च साहरइ' यच्च संहरति, यच्च भोजन पात्राद् निष्क्रामयति, 'जं च आसगंसि पक्खिवइ' यच्चाssस्यके मुखे प्रक्षिपति, एवमवग्रहितं त्रिविधं भवति । 'एगे' एके केचन आचार्यां एवं पूर्वोक्तप्रकारेण त्रिविधमवग्रहितम् आहुः - कथयन्तीति ॥ सू० ४६ ॥
अत्रान्याचार्यमतमाह – 'एगे पुण' इत्यादि ।
सूत्रम् - एगे पुण एवमाहंसु - दुविहे ओग्गहिए पन्नत्ते, तंजहा - जं च ओगिण्हs जं च आसगंसि पक्खिवइ ॥ ४७ ॥