SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २२८ व्यवहारसूत्रे एको दायकः अनेकां भिक्षामेकत्रीकृत्य एकवारेणाऽव्यवच्छिन्नतया ददातीति तृतीयो भङ्गः ३, एको दायकः अनेका भिक्षा अनेका दत्तयः, अत्र-एको दायकोऽनेकां भिक्षां बहुशो वारान् विच्छिद्य विच्छिद्य ददातीति चतुर्थो भङ्गः ४, इति ॥ सू० ४३ ॥ ___ पूर्वोक्तं सूत्रं पतद्ग्रहमधिकृत्य दत्तिविषयकं कथितम् , सम्प्रति पाणिपतद्ग्रहविषयकं सूत्रमाह'संखादत्तियस्स णं इत्यादि । सूत्रम्-संखादत्तियस्स णं भिक्खुस्स पाणिपडिग्गहियस्स गाहाबइकुलं पिंडवायपडियाए अणुप्पविट्ठस्स जावइयं केइ अंतो पाणिस्स उच्चित्ता दलएज्जा तावइयाओ दत्तीओ वत्तव्वं सिया, तत्थ से केइ छब्बएण वा दूसरण वा चालएण वा अतो पाणिस्स उच्चित्ता दलएज्जा सावि णं सा एगा दत्ती वत्तव्वं सिया, तत्थ से बहवे भुंजमाणा सव्वे ते सयं सयं पिंडं समाहणिय अंतो पाणिस्स उच्चित्ता दलएज्जा सव्वावि णं सा एगा दत्ती वत्तव्वं सिया ॥ सू० ४४ ॥ छाया-संख्यादत्तिकस्य खलु भिक्षोः पाणिपतद्ग्रहिकस्य गाथापतिकुलं पिण्डतिपातप्रतिक्षया अनुप्रविष्टस्य यावत्कं कश्चिद् अन्तः पाणेः उच्चैः कृत्वा दद्यात् तावत्यो दत्तयो वक्तव्यं स्यात् , तत्र तस्य कश्चित् छब्बकेन वा दूष्येण वा चालकेन वा अन्तः पाणेः उच्चैः कृत्वा दद्यात् सर्वाऽपि खलु सा एका दत्तिः वत्तव्यं स्यात् , तत्र तस्य बहवो भुजानाः सर्वे ते स्वकं स्वकं पिण्डं संहृत्य अन्तः पाणेः उच्चैः कृत्वा दद्यात् सर्वाऽपि खलु सा एका दत्तिः वक्तव्यं स्यात् ॥ सू० ४४ ॥ भाष्यम्-'संखादत्तियस्स णं भिक्खुस्स' संख्यादत्तिकस्य संख्यामाश्रित्य दत्तिरूपेण भिक्षाग्राहिणः खलु भिक्षोः, कीदृशस्य तस्य ? इत्याह-'पाणिपडिग्गहियस्स' पाणिपतद्ग्रहिकस्य भिक्षोः पाणिरेव पतद्ग्रह-पात्रं यस्य सः पाणिपतद्ग्रहः, स एव पाणिपतद्ग्रहिकः, यः पाणावेव करे एवान्नपानादिकं धृत्वा भुङ्क्ते तस्य 'गाहावइकुलं' गाथापतिकुलं-गृहस्थगृहम् पिंडवायेपडियाए' पिण्डपातप्रतिज्ञया-आहारग्रहणेच्छया 'अणुप्पविट्ठस्स अनुप्रविष्टस्य गृहस्थगृहे भिक्षार्थ गतस्य 'जावइयं' यावत्कं-यावद्वारमाछियाछिद्य द्वित्रादिवारम् , इत्यादि शेषं सर्वं पूर्वोक्त पतद्ग्रहधारिसुत्रवद् व्याख्येयम् , विशेष एतावानेव-पूर्वसूत्रे 'अंतो पडिग्गहस्स' इत्यस्य स्थाने 'अंतो पाणिस्स' इति पठनीयम् , 'अंतो पाणिस्स' अन्तः पाणेः हस्तस्य मध्ये इति व्याख्या कर्तव्येति ॥ सू०४४ .. पूर्व पतद्ग्रहधारिणः पाणिपतहिकस्य च दत्तिरूपो भिक्षाऽभिग्रहः प्रतिपादितः, साम्प्रतमभिग्रहप्रसङ्गाद् उपहृतमेव गृह्णातोति-उपद्वतस्वरूपमाह-'तिविहे उवहडे' इत्यादि । सूत्रम्-'तिविहे उवहडे पन्नत्ते, तंजहा-सुद्धोवहडे, फलिहोवहडे, संसहोवहडे ॥४५॥ छाया-त्रिविधमुपहृतं प्रक्षप्तम् , तद्यथा-शुद्धोपहतं फलिकोपहृतं संसृष्टोपहतम् ॥ सू० ४५॥
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy