SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ० ९ सू० ४४ पाणिपात्रसंख्यादत्तिकभिक्षुभिक्षाविधिः २२७ दत्ती वत्तव्वं सिया' साऽपि खलु सा-एका दत्तिरिति वक्तव्यं स्यात् । इदमेकजनमाश्रित्य कथितम्, सम्प्रति-अनेकजनानाश्रित्य कथयति-'तत्थ से हवे' इत्यादि, 'तत्थ ब ब हवे भुंजमाणा' तत्र-गृहस्थगृहे बहवोऽनेके भुञ्जाना भोजनं कुर्वाणा भवेयुः 'सब्वे ते सयं सयं पिंडं' सर्वे ते स्वकं स्वकं-स्वकीयं स्वकीयं पिण्डमन्नादि 'साहणिय' संहृत्य-एकत्रीकृत्य 'अंतो पडिग्गहस्स' अन्तः पतद्ग्रहस्य पात्रमध्ये 'उच्चित्ता' उच्चैः कृत्वा--उपरितः 'दलएज्जा' दद्यात् 'सव्वावि णं सा एगा दत्ती वत्तव्वं सिया' सर्वाऽपि खलु सा भिक्षा एका दत्तिरिति वक्तव्यं स्यात् । अयं भावः-ओदनादिकं ददानो गृहस्थो यावत्कं भोजनजातमेकवारेण पात्रे क्षिपेत् सा एकवारं पतिता भिक्षा दत्तिरुच्यते । पानकस्य च दाने यावत् पानकधारा त्रुटयते तावदेकादत्तिः कथ्यते । आहारजाते एकवारेण पात्रे पतिते--पानकद्रव्यस्य धाराविच्छेदे च यदि दाता पुनर्निक्षिपेत् तदा सा द्वितीया दत्तिर्भवेत् । एवं तृतीयचतुर्थादिवारेण तृतीयचतुर्थादिर्दत्तिर्जायते । तथा-गृहस्थस्य गृहे पथिकाः कर्मकरा वा एकाङ्गणे पृथक् पृथक् उपस्कृत्य भुञ्जते, तेषामेकः परिवेषकः स्यात् , साधुश्च तत्र तत्समये भिक्षार्थमनुप्रविष्टो भवेत् ततः स परिवेषकः 'ददामी'-तेि साधवे निवेदयति तत्समये भुञ्जानास्ते सर्वे वदेयु:- यत् प्रत्येकमस्मदीयभोजनमध्यादपि साध भिक्षां देहीति, ततस्तेन परिवेषकेण तेषां सर्वेषां भोजनमध्याद् गृहीत्वा गृहीत्वा एकत्रीकृत्य तद् भोजनजातं साधोः पात्रमध्येऽवच्छिन्नं प्रक्षिपेत्तदा बहुजनभिक्षासद्भावेऽपि सा एकैव दत्तिर्भवेत् एकेनैव वारेणाऽव्यवच्छिन्नतया पात्रे पतितत्वादिति । अत्र भिक्षा दत्तिश्चेति पदद्वयमधिकृत्य द्विकसंयोगे चतुर्भङ्गी भवति, तथाहि-एका भिक्षा--एका दत्तिः १, एका भिक्षाअनेका द तयः २, अनेका भिक्षा--एका दत्तिः ३, अनेका भिक्षा अनेका दत्तयः ४, इति । अत्र प्रथमभङ्गे दायकेनाऽव्यवच्छिन्ना एकेनैव वारेण दत्ता तत एका भिक्षा-एका दत्तिः १, द्वितीयभङ्गे व्यवच्छिद्य व्यवच्छिद्य दत्तेति-एका भिक्षा-अनेका दत्तयः २, तृतीयभङ्गे अनेका भिक्षा एका दत्तिः, अत्र दायकेन सर्वेषां भोजनजातमेकत्रीकृत्यैकवारेण अव्यवच्छिन्नतया दत्ता, अत्र 'तत्थ बहवे भुंजमाणा' इति सूत्रस्य पूर्वोक्तो भावो घटते ३। चतुर्थे भङ्गे अनेका बहुजनसत्का भिक्षा व्यवच्छिद्य व्यवच्छिद्याऽनेकवारेण दत्तेति-अनेका भिक्षा-अनेका दत्तयः ४, इति भङ्गचतुष्टयस्य स्पष्टीकरणम् । एवम्-एकानेकदायक-भिक्षा-दत्तीति पदत्रयमधिकृत्य त्रिकसंयोगे चतुर्भङ्गी प्रदर्श्यते-एको दायकः एका भिक्षा एका दत्तिः, अत्र एको दायक एकां भिक्षामेकवारेणाऽव्यवच्छिन्नतया ददातीति प्रथमो भङ्गः १, एको दायकः एका भिक्षा अनेका दत्तयः, अत्र-एको दायक एका भिक्षा बहुशो वारान् विच्छिद्य विच्छिद्य ददातीति द्वितीयो भङ्गः २, एको दायकः अनेका भिक्षा एका दत्तिः, अत्र
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy