SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २२६ व्यवहारस्त्रे पूर्व मोकप्रतिमाद्वयं प्रतिपादितम्, प्रतिमाधारी च दत्तिरूपेण भिक्षां गृह्णाति, तत्र किं नाम दत्तिरिति-दत्तिस्वरूपं प्रदर्शयति--'संखादत्तियस्स णं' इत्यादि । सूत्रम्-संखादत्तियस्स णं भिक्खुस्स पडिग्गहधारिस्स गाहावइकुलं पिंडवाय पडिवाए अणुप्पविद्वस्स जावइयं केइ अन्तो पडिग्गहस्स उच्चित्ता दलएज्जा तावइयाओ दत्तीओ वत्तव्वं सिया, तत्थ से केइ छब्बएण वा दूसरण वा चालएण वा अंतो पडिग्गहस्स उच्चित्ता दलएज्जा सावि णं सा एगा दत्ती वत्तव्वं सिया, तत्थ बहवे भुजमाणा सव्वे ते सयं सयं पिंडं साहणिय अंतो पडिग्गहस्स उच्चित्ता दलएज्जा सव्वा विणं सा एगा दत्ती वत्तव्यं सिया ॥ सू० ४३॥ छाया-संख्यादत्तिकस्य खलु भिक्षोः पतिग्रहधारिणो गाथापतिकुलं पिण्डपात प्रतिक्षया अनुप्रविष्टस्य यावत्कं कश्चित् अन्तः प्रतिग्रहस्य उच्चैः कृत्वा दद्यात् तावत्यो दत्तयो वक्तव्यं स्यात्, तो तस्य कश्चित् छब्बकेण वा दूष्यकेण वा चालकेण वा अन्तः प्रतिग्रहस्योच्चैः कृत्वाः दद्यात् सापि खलु सा एका दत्तिः वक्तव्यं स्यात्, तत्र बहवो भुजानाः सर्वे ते स्वकं स्वकं पिण्डं संहृत्य अन्तः प्रतिग्रहस्य उच्चैः कृत्वा दद्यात् सर्वाऽपि खलु सा एका दत्तिः वक्तव्यं स्यात् ॥ सू०४३॥ भाष्यम्-'संखादत्तियस्स णं' इति । संखादत्तियस्स णं' संख्यादत्तिकस्य खलु संख्या एकद्वित्रादिपरिमाणरूपा, तामाश्रित्य दत्तिः भिक्षाया अव्यवच्छिन्नतया निपातनम् दत्तिरूपाऽन्नस्य पानस्य च भिक्षा यस्य स संख्यादत्तिकः, तस्य संख्यादत्तिकस्य 'भिक्खुस्स' भिक्षोःदत्तिरूपाभिग्रहधारिश्रमणस्य, कीदृशस्य--पडिग्गहधारिस्स' प्रतिग्रहधारिणः-पात्रसहितस्येत्यर्थः, 'गाहावइकुलं' गाथापतिकुलं-गृहस्थगृहम् 'पिंड़वायपड़ियाए' पिण्डपातप्रतिज्ञया-आहारग्रहणेच्छया 'अणुप्पविद्वस्स' अनुप्रविष्टस्य--गृहस्थगृहे गतस्य 'जावइयं यावत्कं-यावद्वारम् आछिद्य आछिद्य द्वित्रादिवारं कृत्वाऽन्न-पानं च 'अन्तो पडिग्गहस्स' अन्तः प्रतिग्रहस्य पात्रस्य मध्ये 'उच्चित्ता' उच्चैः कृत्वा--उपरित उद्धृत्य 'दलएज्जा' दद्यात् 'तावइयाओ दत्तीओ' तावत्य एव दत्तयो भवन्तीति 'वत्तव्यं सिया' वत्तव्यं स्याद् । अयं भावः-एकस्यामपि भिक्षायामुपरि उत्पाटितायां यावतो वारान् आच्छिद्य--विच्छिद्य विरम्य विरम्य साधोः पात्रे अन्नं पानं च प्रक्षिपति तावत्यस्तत्र दत्तयो भवन्तीति । तत्र हस्तकेन पात्रकेण वा उत्पाटिता सा भिक्षेति कथ्यते । दत्तयः पुनस्तामेव भिक्षां यावतो वारान् अवच्छिद्य अवच्छिद्य क्षिपति तावत्यो दत्तयो भवन्तीति तात्पर्यम् । __ 'तत्थ से केइ' तत्र 'से' तस्य-साधोः कश्चित् श्रावकः, 'छब्बएण वा' छब्बकेन वा वंशदलमयेन पात्रेण 'छाबड़ी' ति लोकप्रसिद्धेन, 'दूसरण वा' दृष्येण-वस्त्रेण वा, 'चालएण वा' चालकेन वा-'चालनी'-ति लोकप्रसिद्धेन पात्रेण 'अंतो पडिग्गहस्स' अन्तः पतद्ग्रहस्य पात्रमध्ये 'उच्चित्ता' उच्चैः कृत्वा भिक्षामुपर्युत्पाट्य 'दलएज्जा' दद्यात् 'सावि णं सा एगा
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy