________________
भाष्यम् उ० ९ सू० ४३
पात्रधारिसंख्यादत्तिकभिक्षुकभिक्षाविधिः २२५
पूर्व क्षुदिकामोकप्रतिमा प्रदर्शिता, साम्प्रतं महतीं मोकप्रतिमां प्रदर्शयति - 'महल्लियं' इत्यादि ।
सूत्रम् — महल्लियं णं मोयपडिमं पडिवन्नस्स अणगारस्स कप्पड़ से पढमसरयकालसमयसि वा चरम निदाहकालसमयंसि वा बहिया ठावियन्त्रा, गामस्स वा जाव
यहाणीए वा वर्णसि वा वणदुग्गंसि वा पव्वयंसि वा पव्त्रयदुग्गंसि वा, भोच्चा आरुभइ सोलसमेण पारेइ, अभोच्चा आरुभइ अट्ठारसमेण पारेइ, जाए जाए मोए आवियव्वे तह चैव जाव अणुपालिया भवइ ॥ सू० ४२ ॥
छाया - महतीं खलु मोकप्रतिमां प्रतिपन्नस्य अनगारस्य कल्पते तस्य प्रथमशरत्कालसमये वा चरमनिदाघकालसमये वा बहिः स्थापयितव्या ग्रामस्य वा यावद्राजधान्या वा वने वा वनदुर्गे वा पर्वते वा, पर्वतदुर्गे वा भुक्त्वा आरोहति षोडशेन पारयति अभुक्त्वा आरोहति अष्टादशेन पारयति, जातं जातं मोकमापातव्यम् तथैव यावद् अनुपालिता भवति ॥ सू० ४२ ॥
भाष्यम् – 'महल्लियं णं मोयपडिमं महतीं खलु मोकप्रतिमाम् 'पडिवन्नस्स' प्रतिपन्नस्स-प्राप्तस्य 'अणगारस्स' अनगारस्य - श्रमणस्य 'कप्पड़' कल्पते 'से' तस्य श्रमणस्य 'पढमस रयकालसमयसि वा ' प्रथमशरत्कालसमये - मार्गशीर्षमासे वा 'चरमनिदाहकालसमयंसि वा' चरमनिदाघकालसमये वा - आषाढमासे वा 'बहिया ठावेयव्वा गामस्स वा जाव रायहाणीए वा' बहिः स्थापयितव्या - बहिः समाचरणीया भवति, कस्येत्याह-ग्रामस्य वायावद्राजधान्या वा 'वर्णसि वा वणदुग्गंसिवा' वने वा - वनविषये वा वनदुर्गे - वनदुर्गविषये वा, 'पव्वयंसि वा पन्चयदुग्गंसि वा' पर्वते वा पर्वतदुर्गे वा श्रमणस्य प्रतिमां ग्रहीतुं कल्पते इति पूर्वेणान्वयः ।
अथ यदि श्रमणः 'भोच्चा आरुभइ' भुक्त्वा यदि प्रतिमामारोहति - स्वीकरोति तदा 'सोलसमेण पारेइ' षोडशेन - षोडशभक्तेन - सप्तोपवासरूपेण पारयति पारणां करोति 'अभोच्चा आरुभ अङ्कारसमेणं पारेइ' अथ यदि अभुक्त्वा प्रतिमामारोहति - स्वीकरोति तदा - अष्टादशेन भक्तेन अष्टोपवासरूपेण पारयति - पारणां करोति, अस्यां प्रतिमायाम् ' जाए जाए मोए आवियब्वे' जातं जातं मोकं कायिकीत्यर्थः, आपातव्यम् । 'तह चेव' तथैव क्षुद्रिकाप्रतिमावदेव सर्वोऽपि आलापकोऽत्र ग्रहीतव्यः कियत्पर्यन्तमित्याह - 'जाव आणाए अणुपालिया भवइ' यावद आज्ञया अनुपालिता भवति, इति पर्यन्तम् । अत्रस्थानां सर्वेषां पदानां व्याख्या क्षुद्रिकामोकप्रतिमावत् कर्त्तव्या। एते द्वे अपि प्रतिमे धृतिबलसंपन्नस्यैव भवति न तु कातरस्येति ॥ सू० ४२ ॥
स्थ. २९