SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ व्यवहारसूत्रे षभिरुपवासैः पारयति - पारणां करोति 'अभोच्चा आरुभइ सोलसमेण पारेइ' अथ यदि अभुक्त्वाभोजनमकृत्वा आरोहति प्रतिमां प्रतिपद्यते तदा षोडशेन षोडशभक्तेन सप्तभिरुपवासैः पारयति पारणां करोति । तत्र विधिमाह - प्रतिमासमाचरणकाले ' जाए जाए मोए आविय वे' जातं जातं मोकं मात्रकं प्रस्रवणमित्यर्थः आपातव्यम्, तत्रापि यत् ' दिया आगच्छ आवियव्वे' दिवा दिवसे आगच्छति मोकं तत् आपातव्यम् 'राई आगच्छइ नो आविवे' यत् रात्रौ आगच्छति तद् नो आपातव्यम् रात्रौ वीर्यप्राणादेरदर्शनात् किन्तु परिष्ठापयितव्यम्, एवमग्रेऽपि योज्यम् । मोकं द्विविधं भवति - स्वाभाविकं तदितरद्वा, तत्र स्वाभाविकं प्राणादिवर्जितं तदितरत् प्राणादिसंमिश्रम्, तत्र स्वाभाविकं पातव्यम्, अस्वाभाविकं परिष्ठापनीयम्, तदेवाह - तत्रापि दिवसेsपि यदि 'सपाणे मत्ते आगच्छ नो त्रियव्वे' सप्राणं जीवविशिष्टं मात्रकम् आगच्छति तदा नो आपातव्यं न पातव्यम्, 'अपाणे मत्ते आगच्छइ आवियव्वे' अप्राणम् - प्राणिविवर्जितं मात्रमागच्छति तदा आपातव्यम् । सप्राणं मोकमेवं भवेत् - उदरे कृमयो भवेयुस्ते चोष्णप्रकृत्या तापिताः सन्तो मोकेन सार्द्धमागच्छेयुः, ताँश्च छायायां निःसृजेत्, 'सबीए मत्ते आगच्छइ नो आवियव्वे' सीजं बीजमिति वीर्यम् वीर्यविशिष्टं मात्रकमागच्छति तदा नो आपातव्यम्, 'अबीए मत्ते आगच्छ आवियन्वे' यदि अबीजं वीर्यरहितं मात्रकमागच्छति तदा आपातव्यम् । 'सद्धेि मत्ते आगच्छ नो आवियव्वे' सस्निग्धं स्नेहविशिष्टं चिक्कणं मात्रक मागच्छति तदा नो आपातव्यम्, 'असणिद्धे मत्ते आगच्छइ आवियन्वे' अस्निग्धं चिकणतावर्जितं मात्रकम् आगच्छति तदा आपातव्यम् । शौकाः पुद्गला द्विविधा भवन्ति - चिकणा अचिक्कणाश्च तत्र अचिक्कणा वीर्यरहिता इत्यर्थः, चिक्कणाः सवीर्याः सस्निग्धा उच्यन्ते, ते उभयेऽपि देहस्य “शैथिल्ये तपोजनितौष्ण्येन तापिताः सन्तो मोकेन सार्द्धं प्रपतन्तीति, 'ससरक्खे मत्ते आगच्छ नो आवियव्वे' सरजस्कं रजोविशिष्टं प्रमेह रोगजन्यकणिकामिश्रितं मात्रकमा - गच्छति तदा न आपातव्यम् किन्तु परिष्ठापनीयम् ' असरक्खे मत्ते आगच्छर आवियन्वे' अरजस्कं रजोरहितं मात्रक्रमागच्छति तदा आपातव्यम् । तन्मोकं कियत्परिमितं पातंत्र्यम् अल्पं व सर्वं वा ? तत्राह ' जाए जाए' इत्यादि, 'जाए जाए मोए आवियन्वे' जातं जातं मोकं मात्रकं सर्वमापातव्यम् । ‘तंजा' तद्यथा - 'अप्पे वा बहुए वा' अल्पं वा बहुकं वा तत्सर्वं मोकं पातव्यम् । अथोपसंहरन्नाह २२४ ' एवं खलु एसा खुडिया मोयपडिमा अहासुत्तं' इत्यादि 'जात्र अणुपालिया भवइ' इत्यन्तम् एवम् कथितप्रकारेण खलु एषा क्षुद्रिका मोकप्रतिमा यथासूत्रं यथाकल्पं यथामार्गं यथातथ्यं सम्यक्कायेन स्पर्शिता पालिता शोधिता तीरिता कीर्त्तिता आज्ञया तीर्थकराज्ञया अनुपालिता भवति, एतेषां पदानां व्याख्या पूर्वसूत्रे गता ॥ सू० ४१ ॥
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy