________________
भाष्यम् उ० ९ सू० ४१
क्षुद्रिका मोकप्रतिमायालनविधिः २२३
छाया - द्वे प्रतिमे प्रज्ञप्ते तद्यथा क्षुद्रिका वा मोकप्रतिमा १, महतिका वा मोकप्रतिमा २ | क्षुद्रिकां खलु मोकप्रतिमां प्रतिपन्नस्य अनगारस्य कल्पते प्रथमशरत्कालसमये वा चरमनिदाघकालसमये वा बहिः स्थापयितव्या, ग्रामस्य वा यावद्राजधान्या वावने व वनदुर्गे वा पर्वते वा पर्वतदुर्गे वा, भुक्त्वा आरोहति चतुर्दशेन पारयति, अभुक्त्वा आरोहति षोडशेन पास्यति, जातं जातं मोकमापातव्यम्, दिवा आगच्छति आपा तव्यम्, रात्रौ आगच्छति तो आपातव्यम्, सप्राणं मात्रम् आगच्छति नो आपातव्यम्, अप्राणं मात्रम् आगच्छति आपातकम् सबीजं मात्रम् आगच्छति नो आपातव्यम्, अबीज़ं मात्रम् आगच्छति आपातव्यम्, सस्निग्धं मात्रम् आगच्छति नो आपातव्यम् अस्निग्धं मात्रम् आगच्छति आपातव्यम्, सरजस्कं मात्रम् आगच्छति नो आपातव्यम्, अरजस्कं मात्रम् आगच्छति आपातव्यम् । जातं जातं मोकमापातव्यम् तद्यथा - अल्पं वा बहुकं वा । एवं खलु पपाद्रिका मोकप्रतिमा यथासूत्रम् यथाकल्पम् यथामार्गम् यथातथ्यम् सम्यक्कायेन स्पर्शिता पालिता शोधिता तीरिता कीर्त्तिता आज्ञया अनुपालिता भवति ॥ सू० ४१ ॥
भाष्यम् – 'दो पडिगाओ पन्नत्ताओ द्वे - द्विप्रकारिके प्रतिमे प्रज्ञप्ते कथिते, 'तंजहा ' तद्यथा - 'खुड्डिया वा मोयपडिगा महल्लिया वा मोयपडिमा ' क्षुद्रिका वा मोकप्रतिमा महतिका वा मोकप्रतिमा । तत्र मोकं कायिकी, तत्प्रधाना प्रतिमा मोकप्रतिमा, मोचयति पापकर्मभ्यः साधुमिति मोकं तत्प्रधाना प्रतिमा गोकप्रतिमा, अस्यां प्रतिमायां सिद्धायां कचिन्मुनिः कालं कुर्वन् कर्मविमुक्तः सिद्धो भवति, देवो वा महर्द्धिको भवति, अथवा रोगाद्विमुच्यते शरीरेण कनकवर्णो जायते । उत्सर्गमार्ग प्रधानेयं प्रतिमा, तां न कातरः पालयितुं शक्नोति । तत्र प्रथमं क्षुल्लिका मोकप्रतिमास्वरूपं प्रदर्शयति- 'खुडियं णं मोयपडिमं पडिवन्नस्स अणगारस्स' क्षुद्रिका मोकप्रतिमां प्रतिपन्नस्य प्राप्तस्यान परस्य साधोः 'कप्पड़' कल्पते 'पढमसरयकालसमयंसि वा ' प्रथमशरत्कालसमये- शरत्कालस्य प्रथमसमये - मार्गशीर्षे 'चरम निदाहकालसमयंसि वा' चरमनिदाघकालसमये - उष्णकालस्य चरमसमये आपाढमासे 'बहिया ठावेयव्वा' बहिः स्थापयितव्या बहिर्गत्वा समाचरणीया, कस्य वहिरित्याह- 'गामस्स वा जाव रायहाणीए वा ग्रामस्य वा याव - द्राजधान्या वा बहिः, यावत्पदेन - आकर नगर निगम खेटकर्वटमडम्बद्रोणमुखपत्तनाश्रम संबा हसन्निवेशानां संग्रहस्तेन आकरनगरादिराजमनीपर्यन्तानां बहिरिति भावः । कुत्र स्थाने ? इत्याह- 'वर्णसि वा
दुग्गंसि वा' वने वा - एक नातीय वृक्षसमुदायरूपे, वनदुर्गे वा नानाजातीय सघन वृक्षसमुदायरूपे, 'पन्च वा पव्वयदुग्गंसि वा' पर्वते वा प्रसिद्धे, पर्वतदुर्गे वा अनेकपर्वतसमुदायरूपे गत्वेयं क्षुद्रिका मोकप्रतिमा समाचारणीया भवेत् । भोच्चा आरुभइ' भुक्वा भोजनं कृत्वा आरोहति, तथाहि -मोक प्रतिमाप्रतिपन्नो मुनिर्निषद्यां चोलपट्टे कायिकींपात्रकं च गृहीत्वा ग्रामादेर्बहिर्गत्वा एकान्ते प्रतिमां प्रतिपद्यते । तत्र कायको समागमे तां मात्रके व्युत्सृज्यानापातेऽसंलोके दिशालोकं कृत्वा आपिबेत् । तां प्रतिमां यदि 'भोच्चा आरुमइ' भुक्त्वा स्वीकरोति तदा - 'चउदस मेणं पारेइ' चतुर्दशेनच-तुर्दशभक्तेन