________________
भाष्यम् उ० ९ सू० १७-१८
चक्रिकाशालागतवस्तुग्रहणाग्रहणविधिः २०९ दोषा यथा-भद्रकः सागारिकश्चिन्तयति-यदहं शय्यातरोऽस्मीति साधवो मे भिक्षां न गृह्णन्ति तेनाहं साधुप्रतिलम्भनाद् वश्चितो भवामीति विचार्य तं ज्ञातकं बूते-एते साधवः शय्यातरत्वेन ममाशनादि ग्रहीतुं नेच्छन्ति ततस्त्वमेतेभ्यः प्रभूतमशनादिकं देहि, यत्त्वं दास्यति तदहं तव प्रतिदास्यामीति । ज्ञातकश्चैवं कुर्यात् । अथवा स स्वयं तस्याशनादौ स्वकीयाशनादेः प्रक्षेपणं कुर्यादिति प्रक्षेपादिरूपभद्रकदोषाः संभवन्ति ।
प्रसङ्गदोषा यथा-सागारिकगृहस्थितज्ञातकाशनादेर्ग्रहणे सागारिकगृहप्रसङ्गाल्लोके शय्यातरपिण्डग्रहणाशङ्काऽवश्यम्भाविनीति प्रसङ्गदोषसम्भवः, अतो भगवता-एकगृहपृथग्गृहैकचुल्हीपृथकचुल्हीमिष्पादितं सर्वविधमपि अशनादिकं सागारिकगृहसम्बन्धात् साधूनामकल्प्यत्वेन प्रतिपादितमित्यलं विस्तरेणेत्यष्टसूत्रीभावः ॥ सू० ९-१६ ॥
पूर्व सागारिकगृहस्थितिसंबन्धात्तत्र निवसतस्तत्स्वजनस्याऽपि अशनादि साधूनां प्रतिग्रहीतुं न कल्पते इति प्रोक्तम्, साम्प्रतं पण्यशालास्थितस्य साधुयोग्यवस्तुजातस्य ग्रहणे सागारिकसंबन्धासम्बन्धमधिकृत्य यथायोग विधिनिषेधं प्रदर्शयन् चक्रिकाशालादिषोडशसूत्रीमाह'सागारियस्स चक्कियासाला' इत्यादि ।
सूत्रम्--सागारियस्स चक्कियासाला साहारणवक्कयपउत्ता तम्हा दावए नो से कप्पइ पडिगाहित्तए ॥ सू० १७ ॥
छाया--सागारिकस्य चक्रिकाशाला साधारणावक्रयप्रयुक्ता तस्माद् दद्यात् नो तस्य कल्पते प्रतिग्रहीतुम् ॥ सू० १७ ॥
भाष्यम्-'सागारियस्स' सागारिकस्य-शय्यातरस्य 'चक्कियाशाला' चक्रिकाशाला तैलविक्रयशाला, कीदृशीत्याह-'साहारणवक्कयपउत्ता' साधारणावक्रयप्रयुक्ता, तत्र-सागारिकस्य अन्यस्य भागिकस्य च द्वयोः साधारणः-प्तमानोऽवक्रयः विक्रयणं तेन प्रयुक्तानियोजिता, यत् तस्यां शालायां तिलादि प्रक्षिप्यते, यश्च तत्र लाभो भवेत् तत्सर्वं सागारिकेण भागिकेन च साधारणं-समानं, तज्जातलाभादेः समानो भागो न्यूनाधिको वा भागो भविष्यतीति नियमेन प्रयुक्ता चक्रिकाशाला भवेत्, ‘तम्हा दावए' तस्माद् दद्यात्, तस्मात्-साधारणावक्रयशालागतवस्तुजातमध्याद् यद्वस्तु साधोर्योग्यं तैलादिकं तदन्यद्वा साधवे दद्यात् तदा तद्वस्तु 'नो से कप्पइ पडिगाहित्तए' नो-नैव 'से' तस्य-श्रमणस्य कल्पते प्रतिग्रहीतुम् ।