SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ व्यवहारसूत्रे अर्थ भावः - - कस्यचित् शय्यातरस्य तैलशाला विद्यते तस्य अन्य एकोऽनेकेवाऽधिकारिणो भवेयुः, शालातस्तैलादीनां विक्रयकरणेन यो लाभो जायते स एकस्य न भवति, किन्तु -अनेकेषु विभज्यते, तत्र यो विक्रेता स यदि साधवे तैलादिकं किमपि दद्यात् तादृशं वस्तु-तैलादिकं साधूनां ग्रहीतुं न कल्पते इति निषेधसूत्रम् ॥ सू० १७ ॥ २१० अथ विधिसूत्रमाह-- ' सागारियस्स' इत्यादि । सूत्रम् -- सागारियस्स चक्कियासाला निस्साहारण वक्कयपउत्ता तम्हा दावए एवं से कप पडिगाहित्तए ॥ सू० १८ ॥ छाया - सागारिकस्य चक्रिकाशाला निस्साधारणाऽवक्रयप्रयुक्ता, तस्माद् दद्यात् एवं तस्य कल्पते प्रतिग्रहीतुम् ॥ सू० १८ ॥ भाष्यम् – 'सागारियस्स' सागारिकस्य - शय्यातस्य - गृहस्थस्य 'चक्कियासाला' चक्रिकाशाला - तैलविक्रयशाला वर्त्तते किन्तु सा 'निस्साहरणवक्कयपउत्ता' निःसाधारणाऽवक्रयप्रयुक्ता निस्साधारणः---सागारिकभागरहितोऽवक्रयो विक्रयणम् अत्र यत्किञ्चित्तैलादि, तत्संजातलाभश्च भविष्यति तत्सर्वं तवैव न मम, इत्येवंरूपेण प्रयुक्ता-नियोजिता भवेत्, स्वतन्त्ररूपेण तस्यैव चक्रिकस्य न तु सागारिकस्य तत्र भागो विद्यते ' तम्हा दावए' तस्मात् तादृशनिःसाधारणचक्रिकाशालामध्यात् यत् साधूचित्तं तैलादिकमन्यद्वा वस्तु आपणस्थविक्रेता दधात् ' एवं से कप्पइ पडिगाहित्तए' एवंप्रकारेण दीयमानं तैलादिकम् ' से' तस्य - श्रमणस्य कल्पते प्रतिग्रहीतुम् । 9 या खलु शाला साधारणा सागारिकभागयुक्ता भवेत् तन्मध्याद् दीयमानं वस्तु साधूनां न कल्पते प्रतिग्रहीतुमिति सप्तदशसूत्रस्याशयः । या तु खलु निस्साधारणा - सागारिकभागवर्जिता भाटकेन गृहीता, व्यापारमाश्रित्य चक्रिकस्य स्वतन्त्रा शाला भवेत्तन्मध्याद् दीयमानं तैलादिकं वस्तु साधूनां कल्पते प्रतिग्रहीतुम् । इत्यष्टादशसूत्रस्याशयः, एवमग्रेऽपि गौडिकशालादिसूत्राणि बोध्यानीति ॥ सू० १८ ॥
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy