________________
व्यवहारचे
एकनिष्क्रमणप्रवेशायाम् 'बाहि' बहिर्भागे इत्यर्थः ' सागारियस्स एगपयाए ' सागारिकस्य एकप्रजायाम् एकस्यामपि चुल्हिकायामित्यादिशेषस्य सर्वस्यापि पूर्ववद् व्याख्यानं कर्त्तव्यमिति ॥ १५ ॥
२०८
सूत्रम् - सागारियस्स नायए सिया सागारियस्स अभिनिव्वगडाए एगदुवाराए Raftaar dare बाहिं सागारियस्स अभिनिप्पयाए सागारियं चोवजीवइ तम्हा दावए नो से कप्पइ पडिगाहित्तए' ।। सू० १६॥
छाया -- सागारिकस्य ज्ञातकः स्यात् सागारिकस्य- अभिनिबगडायाम् पकद्वारायाम् एकनिष्क्रमण प्रवेशायां बहिः सागारिकस्य अभिनिप्रजायाम् सागारिकं चोपजीवति, तस्मात् दद्यात् नो तस्य कल्पते प्रतिग्रहीतुम् ॥ सू० १६ ॥
भाष्यम् – 'सागारियस्स' सागारिकस्य 'नायए सिया' ज्ञातकः स्यात् स च सागारिकस्य स्वजनः 'सागारियस्स' सागारिकस्य शय्यातरस्य 'अभिनिव्वगडाए' अभिनिवगड़ायाम्पृथग्वसता किन्तु ' एगदुवाराए' एकद्वारायाम् 'एग निक्खमणपवेसाए' एकनिष्क्रमणप्रवेशायाम् ‘बाहिं' बहिःप्रदेशे 'अभिनिपयाए' अभिनिप्रजायाम् पृथकूचुल्हिकायाम्, शेषं सर्वं व्याख्यातपूर्वसूत्रवद् बोध्यम् ।
अत्र ज्ञातकमधिकृत्य नवमसूत्रादारम्य षोडशसूत्रपर्यन्तानि अष्ट सूत्राणि सन्ति, तत्रादिमानि चत्वारि (९-१२) सूत्राणि सागारिकस्यैकगृहविषयाणि सन्ति, तानि यथा-
"
२ सूत्रद्वयं गृहान्तः एकचुल्हिकाविषयं पृथक्चुल्हिकाविषयं चेति । २ -सूत्रद्वयं च गृहाद्वहिरेक चुल्हिकाविषयं पृथक्चुल्हिका विषयं चेति चत्वारि ४ ।
चरमाणि चत्वारि (१३-१६) सूत्राणि च - एकद्वारैकनिष्क्रमण प्रवेशयुक्तपृथग्गृहविषयाणि सन्ति, तानि यथा-२ सूत्रद्वयं गृहान्तः एकचुल्हिकाविषयं पृथक् चुल्हिकाविषयं । २ सूत्रद्वयं च ग्रहाद्वहिरेक चुल्हिका विषयं पृथक् चुल्हिकाविषयं चेति च
।
,
एवमष्ट सूत्राणि सन्ति, एषु चाष्टस्वपि सूत्रेषु प्रदर्शितमशनादि साधूनां प्रतिग्रहीतुं न कल्पते, तत्र सर्वत्र सागारिकज्ञातयोः परस्परं काष्ठलवणतकादिव्यवहारसम्बन्धेन शय्यातरपिण्डदोषसंभवात् ।
ननु चतुर्षु प्रथम- तृतीय- पश्चम- सप्तमरूपेषु सागारिकज्ञातकयोरेकचुल्होत्वेन तत्र निष्पादिताशनादौ सागारिक पिण्डदोषसम्भवः, किन्तु सागारिककाष्ठलवणादिव्यवहाररहितस्य तत्र निवासमात्रेण स्थितस्य ज्ञातकस्य पृथक्चुल्हीनिष्पादितस्याऽशनादेर्ग्रहणे को दोषः ? येन तदपि अग्राह्यत्वेन भगवता प्रतिपादितम् ? तत्राह तत्रापि भद्रकप्रसङ्गाद्यनेकदोषसम्भवः, भद्रक