________________
भाष्यम् उ० ९ सू० १४-१६
सागारिकशातकाहारग्रहणाग्रहणविधिः २०७ गृहात् पृथग्गृहे इत्यर्थः किन्तु 'एगदुवाराए' एकद्वारायाम् एकमेव द्वारं यस्यां सा एकद्वारा तस्यामेकद्वारायामभिनिवगडायाम्, पुनश्च 'एगनिक्खमणपवेसाए' एकनिष्क्रमणप्रवेशायाम् एक एव निष्क्रमणेति निष्क्रमणमार्गः प्रवेशेति प्रवेशमार्गश्च यत्र तथाभूतायाम् अभिनिवगडायाम् 'अन्तो' अन्तमध्ये--एतादृशगृहस्याऽभ्यन्तरे 'सागारियस्स एगपयाए' सागारिकस्य एकप्रजायाम् एकस्यामेव प्रजायां--चुल्हिकायाम् यत्र चुल्हिकायाम् सागारिकः पचति तत्रैव तस्य स्वजनोऽपि रन्धनादिकं करोतीत्यर्थः, 'सागारियं चोवजीवई' सागारिकं--शय्यातरमाश्रित्य उपजीवति-- जीवनं यापयति । शेषं सर्व पूर्वव्याख्यातवदेव बोध्यम् ॥ सू० १३ ॥
सूत्रम्-सागारियस्स नायए सिया सागारियस्स अभिनिवगड़ाए एगदुवाराए एगनिक्खमणपवेसाए अंतो सागारियस्स अभिणिपयाए सागारियं च उवजीवइ तम्हा दावए नो से कप्पइ पडिगाहित्तए ॥ सू० १४ ॥
छाया-सागारिकस्य शातकः स्यात् सागारिकस्य अभिनिवगड़ायाम् एकद्वारायाम् एकनिष्क्रणप्रवेशायाम् अन्तः सागारिकस्य अभिनिप्रजायाम् सागारिकं चोपजीवति तस्माद् दद्यात् नो तस्य कल्पते प्रतिग्रहीतुम् ॥ सू० १४ ॥
भाष्यम्- 'सागारियस्स' सागारिकस्य 'नायए सिया' ज्ञातकः स्यात् स च स्वजनः 'सागारियस्स अभिनिव्वगडाए' सागारिकस्य अभिनिवगडायाम् पृथग्गृहे इत्यर्थः किन्तु 'एगदुवाराए' एकद्वारायाम्-एकद्वारयुक्तायाम् , 'एगनिक्खमणपवेसाए' एकनिष्कमणप्रवेशायाम्, एक एव निष्क्रमणस्य प्रवेशस्य च मार्गों यत्र तादृश्यामेकवगड़ायाम् । 'अन्तो' अन्तर्मध्ये 'सागारियस्स अभिनिपयाए' सागारिकस्य अभिनिप्रजायाम्-पृथग्भूतायां चुल्हिकायाम्, रन्धनादिकं करोति, इत्यादि सर्वं पूर्ववदेव व्याख्येयम् ॥ सू० १४ ॥
सूत्रम्-सागारियस्स नायए सिया सागारियस्स अभिनिव्वगडाए पगदुवाराए एगनिक्खमणपवेसाए बाहिं सागारियस्स एगपयाए सागारियं चोवजीवइ तम्हा दावए नो से कप्पइ पडिगाहित्तए ॥ सू० १५॥
छाया-सागारिकस्य ज्ञातकः स्यात् सागारिकस्य अभिनिवगडायाम् एकद्वारायाम् एकनिष्क्रमणप्रवेशायाम् बहिः सागारिकस्य एकप्रजायाम् सागारिकं चोपजीवति तस्माद् दद्यात् नो तस्य कल्पते प्रतिग्रहीतुम् ॥ सू० १५॥
भाष्यम्- 'सागारियस्स' सागारिकस्य-शय्यातरस्य 'नायए सिया' ज्ञातकः स्यात् स च 'सागारियस्स' सागारिकस्य 'अभिनिव्वगडाए' अभिनिवगड़ायाम्-पृथग्भूतायां वसतौ पृथक् पृथग गृहे इति यावत् , किन्तु 'एगदुवाराए' एकद्वारायाम् , एगनिक्खमणपवेसाए'