________________
૨૦
व्यवहारसूत्रे यतं दीयते, दासादीनां च हस्तोत्पाटितं नियतमेव दीयते, तथा आदेशाय सत्कारपुरस्सरं दीयते, न तथा दासादिकृते, तथा-आदेशस्य भोजनविधिसंपाद नाय महान् प्रयत्नः ससंभ्रम विधीयते, दासादीनांतु न तादृशः प्रयत्नः क्रियते, इत्यत आदेशस्य दासादेश्च सूत्राणां पृथक्करण मुचितमेवेति बोध्यम् ॥ सू० ७ ८॥
उपर्युक्तसूत्राष्टके आदेशादिविषयमधिकृत्य कथितम्, सम्प्रति ज्ञातकमधिकृत्यैकगृहविषयं सूत्रचतुष्टयमाह-'सागारियस्स' इत्यादि ।
सूत्रम् -सागारियस्स नायए सिया सागारियस्स एगवगडाए अंतो एगपयाए सागारियं चोवजीवइ तम्हा दावए नो से कप्पइ पडिगाहितए ॥ सू० ९॥
छाया-सागारिकस्य शातकः स्यात् सागारिकस्य-एकवगडायामन्तः एकप्रजायां सागारिकं चोपजीवति तस्माद् दद्यात् नो तस्य कल्पते प्रतिग्रहीतुम् ॥ सू० ९॥
भाष्यम्-'सागारियस्स' सागारिकस्य-शय्यातरस्य, 'नायए सिया' ज्ञातकः-सागारिकस्वजनः स्यात्, तत्र-ज्ञातको नाम-स्वजनः पूर्वसंस्तुतः १, यदि वा पश्चात्संस्तुतः २, यदि वा उभयसंस्तुतः स्वजनः ३, तत्र पूर्वसंस्तुतः-मातापितृपक्षवर्ती १, पश्चात्संस्तुतः कलत्रपक्षगतः २, उभयसंस्तुतः-उभयपक्षवर्ती ३ भवेत्, 'सागारियस्स सागारिकस्य-शय्यातरस्य 'एगवगडाए' एकवगडायाम्-एकस्मिन् गृहे, तस्य गृहस्य-'अंतो' अन्तः- मध्ये, 'एगपयाए' एकप्रजायाम, तत्र प्रजानाम-चुल्ली, तदर्थस्तु-प्रकर्षेण जायते पाकनिष्पत्तिरस्यामिति प्रजाचुल्ही, तस्याम्, अथवा-'एगपयाए' इत्यस्य एकपचायामिति च्छाया, तत्र पच्यते ओदनादिर्यत्र सा पचा चुल्हीत्यर्थः, एका पचा एकपचा तस्याम्, 'सागारियं चोपजीवइ' सागारिकं चोपजीवति, सागारिकमाश्रित्यैव जीवनयात्रां निर्वहति सागारिकस्य काष्ठलवणगोरसमुद्गादिसूपोदकाम्लशाकफलादिग्रहणपूर्वकमुपजीवति 'तम्हा दावए' तस्मात्-तादृशात् सागारिकसंबन्धिस्वजनाशनमध्याद् अशनादिकं दद्यात् 'नो से कप्पइ पडिगाहित्तए' नो तस्य-साधोस्तत कल्पते प्रतिग्रहीतुम्, शय्यातरस्वजनपिण्डस्यापि शय्यातरवस्तुसंयोगात् शय्यातरपिण्डत्वदोष सद्भावात्।
ननु-शय्यातरस्य तज्ज्ञातकस्य च किमर्थमेका चुल्ही भवति ? तत्राह--यतस्तत्र चुल्हीकरं राज्ये गृह्णाति, या या पृथक् चुल्ही भवति तस्यास्तस्याः करमपि पृथग् गृह्णातीति तत्रत्यराज्यनियमात् करभीता लोका एकस्यामेव चुल्हिकायां पाकक्रियां कृत्वा स्वस्वभागं सर्वे गृह्णान्ति ततस्तत्र शय्यातरवस्तुसंमिश्रणप्रसङ्गात्स आहारोऽपि शय्यातरपिण्डदोषदूषितो भवेदिति न कल्पते ॥ सू० ९॥