________________
भाष्यम् उ० सू० १०-१३
सागारिकातकाहारग्रहणाग्रहणविधिः २०५
सूत्रम् - सागारियस्स नायए सिया सागारियस्स एगवगड़ाए अन्तो सागारियस्स अभिनिप्पयाए सागारियं चोपजीवइ तम्हा दावए नो से कप्पर पड़िगाहित्तए । सू० १० ॥
छाया - सागारिकस्य ज्ञातकः स्यात् सागारिकस्यैकवगडायाम् अन्तः सागारि कस्याभिनिप्रजायां सागारिकं चोपजीवति तस्माद् दद्यात् नो तस्य कल्पते प्रतिग्रहीतुम् ॥१०॥
भाष्यम् – 'सागारियस्स नायए सिया' सागारिकस्य - शय्यातरस्य ज्ञातकः - पूर्वोक्तस्वरूपः स्यात् स च 'सागारियस्स एगवगड़ाए अन्तो' सागारिकस्य - शय्यातरस्य - एकवगडायाम् - एकस्मिन् गृहे तदन्तः प्रदेशे एव निवसति, तथा - ' सागारियस्स अभिनिपयाए ' अभिनिप्रजायां तत्र-अभि-प्रत्कं नि-नियता विविक्ता प्रजा अभिनिप्रजा पृथक्चुल्होत्यर्थः, तस्याम्, सागारिकादभिनिप्रजायाम्, सूत्रे पञ्चम्यर्थे षष्ठी आर्षत्वात् ततः सागरिकात् शय्यातरात् पृथक्चुल्हिकायां रन्धनादिकं करोति किन्तु - ' सागारियं चोवजीवइ' सागारिकमाश्रित्य चोपजीवति, शय्यतरस्यैव काष्ठलवणादिकं व्यवहरति । ' तम्हा दावए' तस्मात - सागारिकगृहस्थितपृथक्चुल्लिकासंपादितभक्तपानादिकर्तृस्वजनात् अन्नादिकं साधवे दद्यात् 'नो से कप्पइ पड़िगाहित्तए' तदप्याहारजातं नो - कथमपि न 'से' तस्य - श्रमणस्य कल्पते प्रतिग्रहीतुम् । यद्यपि - शय्यातरगृहे विद्यमानः स्वजनः पृथक् चुल्हिकायां रन्धनादिकं संपादयति तथापि शय्यातरस्य काष्ठादिकं व्यवहरतस्तस्य भक्तादिकमपि शय्यातरपिण्डत्वात् कथमपि साधुभिर्न ग्रहीतव्यमिति भावः ॥ सू० १० ॥
सूत्रम् - सागारियन नायए सिया सागारियस्स एगवगड़ाए बाहिं सागारियस्स एगपयाए सागारियं चोपजीवइ, तम्हा दावए नो से कपइ पाड़िगाहित्तए । सू० ११ ॥
छाया - सागारिकस्य ज्ञातकः स्यात् सागारिकस्य एकवगडायां बहिः सागारि कस्यैकप्रजायां सागारिकं चोपजीवति तस्माद् दद्यात् नो तस्य कल्पते प्रतिग्रहीतुम् ॥ सू० ॥
भाष्यम् – 'सागारियस्स' सागारिकस्य - शय्यातरस्य, 'नायए सिया' ज्ञातकः स्यात्, स च ' सागारियस एगवगड़ाए ' सागारिकस्य - शय्यातरस्य एकवगड़ायाम् - एकस्मिन् - गृहे बहिः प्रदेशे 'सागारियस्स एगपयाए ' सागारिकस्य - शय्यातरस्य - एकप्रजायाम् - एकस्यामेव चुल्हिकायाम् भोजनादिकं निष्पादयति 'सागारियं चोवजीवइ' सागारिकमुपजीवति - शय्यातरप्रदत्तकाष्ठजलादिभिराहारं निष्पादयति 'तम्हा दावए' तस्मात् सागारिकोपजीविस्वजन