SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ० ९ सू० ७-९ सागारिकदासादेराहारग्रहणाग्रहणविधिः २०३ गृहमध्ये 'मुंजइ' भुङ्क्ते, इत्यादि सर्व पूर्ववद् व्याख्येयम् । विशेषस्त्वयम्-अस्मिन् पञ्चमे सूत्रे शय्या तरेण प्रातिहारिकतया दत्तत्वात्तदाहारजातं साधूनां न कल्पते तत्र शय्यातरस्वत्वत्वात् ॥ सू० ५॥ षष्ठे सूत्रे च अप्रातिहारिकत्वेन दत्तत्वात्तदाहारजातं कल्पते इत्येतावदेवाऽन्तरं पश्चमषष्ठसूत्रयोरिति ॥ सू० ६ ॥ पूर्व दासादिकमधिकृत्याऽन्तर्वगडासूत्रद्वयं प्रोक्तम्, सम्प्रति बहिर्वगडासूत्रद्वयमाह'सागारियस्स' इत्यादि । सूत्रम्-सागारियस्स दासेइ वा, पेसेइ वा, भयएइ वा भइण्णएइ वा, बाहि वगडाए मुंजइ निट्ठिए निसिहे पाडिहारिए, तम्हा दावए नो से कप्पइ पडिगाहित्तए ॥सू०७॥ सागारियस्स दासेइ वा पेसेइ वा भयएइ वा भइण्णएइ वा बाहिं वगडाए जइ निहिए निसिढे अप्पाडिहारिए तम्हा दावए एवं से कप्पइ पडिगाहित्तए ॥९०८॥ - छाया-सागारिकस्य दास इति वा प्रेष्य इति वा भृत्य इति वा भृतक इति वा बहिर्वगडायांभु ङ्क्ते निष्ठितान् निसृष्टान् प्रातिहारिकान् तस्मात् ददाति नो तस्य कल्पते प्रतिग्रहीतुम् ॥ सू० ७॥ सागारिकस्य दास इति वा प्रेष्य इति वा भृत्य इति वा-भृतक हात वा बहिर्बगडायां भुङ्क्ते निष्ठितान् निसृष्टान् अप्रातिहारिकान् तस्माद् ददाति, एवं तस्य कल्पते प्रतिग्रहीतुम् ॥ सू० ८॥ भाष्यम्-'सागारियस्स' सागारिकस्य-शय्यातरस्य 'दासे इवा' दास इति वा, इत्यादि पूर्ववदेव वगडाया बहिर्दासादिभोजनग्रहणं सप्तमसूत्रे प्रातिहारिकत्वेन दत्तत्वान्न कल्पते ॥ सू० ७॥ अष्टमसूत्रे च अप्रातिहारिकत्वेन दीयमानत्वात् कल्पते इति भावः ॥ सू० ८॥अत्र सूत्राष्टकस्यायं भावः-अत्रादितश्चत्वारि सूत्राणि बगडाया अन्तर्बहिरादेशमधिकृस्य कथितानि ४ । चत्वारि च वगडाया अन्तर्बहिर्दासादिकमधिकृत्य कथितानि ४ (८) । तत्र-यत्र यत्र प्रातिहारिकं तत्र तत्र शय्यातरस्वत्वत्वात् शय्यातरपिण्ड इति न कल्पते । यत्र यत्र पुनरप्रातिहारिकं तत्र तत्र शय्यातरस्वत्वरहितत्वान्न स शय्यातरपिण्ड इति कल्पते साधूनां प्रतिग्रहीतुम् । यथा प्रथम-तृतीय-पश्चमसप्तमसूत्रेषु शय्यातरपिण्डग्रहणदोषापत्तेरकल्प्यमाहरजातम् । द्वितीय-चतुर्थ-षष्ठाऽष्टमसूत्रेषु शय्यातरस्वत्वरहितत्वान्न तत्र शय्यातरपिण्डत्वमिति तत् कल्प्यमिति ॥ अत्राऽऽशङ्कते शिष्यः चत्वारि सूत्राणि आदेशविषयाणि, चत्वारि च दासादिविषयाणीति अष्टानां सूत्राणां पृथक् पृथक् कथनं निरर्थकम्, आदेशस्य चतुर्वेव सूत्रेषु तेन सार्द्ध दासादीनामपि समावेशसंभवात् ? तत्राऽऽह-शृणु आदेशः कश्चिदपि कदाचिदागच्छति ततस्तस्याऽनि
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy