SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २०२ व्यवहार सूत्रम्-सागारियस्स आएसे बाहि वगडाए भुजइ निहिए निसिटे पाडिहारिए तम्हा दावए, नो से कप्पइ पडिगाहित्तए ॥ सू०३॥ सागारियस्स आएसे बाहिं वगडाए निट्ठिए निसिढे अपाडिहारिए, तम्हा दावए एवं से कप्पइ पडिगाहित्तए । सू० ४॥ छाया-सागारिकस्याऽऽदेशो बहिर्वगडायां भुङ्क्ते निष्ठितान् निसृष्टान् प्रातिहारिकान् तस्मात् ददाति, नो तस्य कल्पते प्रतिग्रहीतुम् ॥ सू० ३ ॥ सागारिकस्य आदेशो बहिर्वगडायां मुफ्ते निष्ठितान् निसृष्टान् अप्रातिहारिकान् तस्माद् ददाति, एवं कल्पते प्रतिग्रहीतुम् ॥ सू४॥ ___भाष्यम्-'सागारियस्स' सागारिकस्य-शय्यातरस्य 'आएसे' आदेशः-प्राधूर्णकादिः 'बाहिं वगडाए' बहिर्वगडायाम् गृहस्य बहिर्भागे इत्यर्थः, शेषं सर्व पूर्वसूत्रद्वयवदेव व्याख्येयम् । तात्पर्यमेतावदेव प्राघूर्णकादिदत्तमाहारं तृतीयसूत्रोक्तं प्रातिहारिकत्वान्न साधूनां कल्पते । चतुर्थसूत्रोक्तं च कल्पते अप्रातिहारिकत्वात्तस्येति विज्ञेयम् ॥ सू० ३-४॥ ___पूर्व प्राघूर्णकादिभ्यो दत्तस्य शय्यातराहारस्य निषेधो विधिश्च प्रदर्शितः, सम्प्रति दासादिभ्यः प्रदत्ताहारविषये निषेधं विधिंच सूत्रद्वयेनाह-'सागारियस्स' इत्यादि । सूत्रम्-सागारियस्स दासेइ वा, पेसेइ वा, भयएइ वा, भइण्णएई वा अंतोवगड़ाए मुंजइ निहिए निसिढे पाडिहारिए तम्हा दावए नो से कप्पइ पडिगाहित्तए ॥ सू० ५॥ सागारियस्स दासेइ वा पेसेइ वा भयएइ भइण्णएइ वा अंतो बगडाए मुंजई निहिए निसिढे अप्पाडिहारिए तम्हा दावए एवं से कप्पइ पडिगाहित्तए ॥ सू० ६ ॥ छाया--सागारिकस्य दास इति वा प्रेष्य इति वा भृत्य इति वा भृतक इति वा अन्तर्वगडाय भुङ्क्ते निष्ठितान् निसृष्टान् प्रातिहारिकान् तस्माद् ददाति नो तस्य कल्पते प्रतिग्रहीतुम् ॥ सू० ५॥ सागारिकस्य दास इति वा प्रेष्य इति वा भृत्य इति वा भृतक इति वा अन्तर्वगडायां भुङ्क्ते निष्ठितान् निसृष्टान् अप्रातिहारिकान् तस्माद् ददाति एवं तस्य कल्पते प्रतिग्रहीतुम् ॥ सू० ६॥ भाष्यम्-'सागारियस्स' सागारिकस्य-शय्यातरस्य 'दासेइ वा' दास इति वाआजन्ममरणावधि किङ्करः । 'पेसेइ वा प्रेष्य इति वा, तत्र-प्रेष्यो यो ग्रामान्तरे प्रेषणार्थ किङ्करः प्रामान्तरसम्बन्धि कार्य करोतीत्यर्थः । 'भयएइ वा' भृत्य इति वा-तत्र-मृत्यः कश्चित्कालं मूल्येन धृतः, 'भइण्णएइ वा' मृतक इति वा प्रभूतकालार्थ क्रयक्रीतः । 'अंतो वगडाए' अन्तर्वगडायाम्
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy