________________
भाष्यम् उ०९ सू०२-६
सागरिकमाघूर्णकादेराहारग्रहणाग्रहणविधिः २०१ यथारुचि भुज्यतां शेषं ममेत्येवं रूपेण दत्तान् भुङ्क्ते 'तम्हा दावए' तस्मात् परिनिष्ठितादिविशेषणविशिष्टौदनादिमथ्यात् निष्कास्य यद् ददाति साधवे 'नो से कप्पइ पडिग्गाहित्तए' नो-न तस्य- श्रमणस्य कल्पते प्रतिग्रहीतुं-स्वीकर्तुम् अत्यक्तसत्ताकत्वेन शय्यातरपिण्डत्वात् , अयं भावः- शय्यातरस्य प्रार्णकादिर्घहेभुङ्क्ते, यं शय्यातरः प्राघूर्णकाद्यर्थ कृत्वा प्रघूर्णकाय अवशिष्टग्रहणप्रतिज्ञया प्रयच्छति तं प्राघूर्णको भुङ्क्ते, तद्भुक्तावशिष्टाहारमध्यादाहारं यय्यारः साधवे यदि ददाति तदा तादृश आहारो न कल्पते साधूनाम् । यतः स आहारः श यातरेण प्राघूर्णकादिभ्यः प्रातिहारिको दत्तोऽतः स शय्यातरस्व. त्वेन शय्यातरपिण्ड इति ॥ ० १॥
पूर्वं गृहान्त जिप्रा पूर्णकादिसंबन्धिशय्यातरस्वत्वयुक्ताहारस्य निषेधः प्रोक्तः, साम्प्रतं शय्यातरस्वत्वरहिततादृशाहारत्य ग्रहणविधिमाह-'सागारियस्स' इत्यादि ।
सूत्रम्-सागारियस्स आएसे अंतो बगडाए मुंजइ निट्ठिए निसिहे अपाडिहारिए तम्हा दावए एवं से कप्पइ पडिगाहेत्तए ॥सू० २।
छाया—सागारिकस्य आदेशः अन्तर्वगडायां भुङ्क्ते निष्ठितान् निसृष्टान् अप्रातिहारिकान् , तस्मात् ददाति एवं तस्य कल्पते प्रतिग्रहीतुम् ॥ सू० २ ॥
__ भाष्यम्- 'सागारियस्स' सागारिकस्य' इत्यादि पूर्वसूत्रवद् व्याख्येयम् , विशेषस्त्वयम्सागारिकभ्य गृहे प्राघूर्णका दर्यान् पदार्थान् भुङ्क्ते तान् पदार्थान् शय्यातरो यदि स्वस्वत्वनिवृत्तिपूर्व प्राघूर्णकादिभ्यो दद्यात् तदा साधोः प्रतिग्रहीतुं कल्पते तदेवाह-'अप्पडिहारिए' इत्यादि, 'अप्पडिहारिए' अप्रातिहारिकान् अपुनर्ग्रहणप्रतिज्ञया दत्तान् स प्राघूर्णकादिर्भुङ्क्ते 'तम्हा दावए' तस्मात् परिनिष्ठितादिविशिष्टौदनादिभोजन जातमध्यात् साधवे दद्यात् , 'एवं से कप्पइ पडिगाहित्तए' एवम्-अनेन प्रकारेण कल्पते तस्य साधोस्तादृशमाहारजातं प्रतिग्रहीतुम् । शयातरस्य प्राघूर्णकादिस्तस्य गृहे आहारजातं भुङ्क्ते तद् गृहपतिना तदर्थ निपादितं तादृशमाहरजातं गृहपतिर्भोक्तुं प्राघूर्णकादिभ्यो दत्त्वा कथयेत्-भोजनानन्तरं यदवशिष्टं भवेत्रत् त्वदीयमेवे ति, तत् प्राघूर्णकेन न पुनर्गृहपतये समर्पितं भवेत् , तदप्रातिहारिकमुच्यते तादृशमाहारजातं यदि प्राघूर्णकादिः साधवे दद्यात् तदा तादृशमाहारजातं साधूनां प्रतिग्रहीतुं कल्पते इति भावः ॥ सू० २ ॥
संप्रति शय्यातरस्य गृहबहिर्मोजिमाघूर्णकादिसंबन्धिभोजनजातस्य शय्यातरस्वत्वास्वत्वविषये निषेधं विधिं च सूत्रद्वयेनाह-'सागारियस्स आएसे' इत्यादि ।
व्य. २६