________________
॥ नवमोद्देशकः॥ व्याख्यातोऽष्टमोद्देशकः, साम्प्रतं नवमः प्रारभ्यते-तत्र अस्य नवमोद्देशकस्यादिसूत्रेण सहाऽष्टमोद्देशकस्य चरमसूत्रेण सह कः सम्बन्धः ? इति संबन्धप्रतिपादनार्थमाह भाष्यकार:'बुत्तो आहारो' इत्यादि । गाथा-वुत्तो आहारो अह, आएसो तं च तत्थ जइ भुंजइ ।
साहूणे तग्गहणे, कप्पाकप्पस्स एत्थ विहो ॥१॥ छाया- उक्त आहारः अथ आदेशस्तं च तत्र यदि भुङ्क्ते ।
साधूनां तद्ग्रहणे, कल्प्याकल्प्यस्य अत्र विधिः ॥१॥ व्याख्या-वुत्तो' इति । अष्टमोद्देशकस्य चरमसूत्रे 'आहारो वुत्तो' आहार उक्तः, आहारप्रमाणं प्रतिपादितम् , तं चाहारम् आदेशः आदिश्यते-सत्कारपुरस्सरम् आहूयते यः स आदेश:-प्राघूर्णकः, ज्ञातकः, स्वजनः, मित्रं, कुलगुर्वादिप्रभुः, परतीथिको वा 'तत्थ' इति-तत्र सागारिकगृहे भुङ्क्ते तदा 'तग्गहणे' तद्ग्रहणे- तस्य तन्निमित्तं कृतस्य ग्रहणे 'साहूणं' साधूनाम् 'कप्पा-कप्पस्स' एत्थ विही कल्प्याऽकल्प्यस्य 'एत्थ' अत्र-नवमोदेशकस्यादिसूत्रे विधिःप्रोच्यते॥१॥
एष एव सम्बन्धः, अनेन सम्बन्धेन आयातस्य नवमोद्देशकस्येदमादिमं सूत्रम्'सागारियस्स' इत्यादि, ।
सूत्रम्-सागारियस्य आएसे अन्तो वगडाए भुंनइ निहिए निसिटिए पाडिहारिए तम्हा दावए नो से कप्पइ पडिग्गाहित्तए ॥२० १॥
छाया-सागारिकस्य आदेशः अन्तर्वगडावां भुङ्क्ते निष्ठितान् निसृष्टान् प्रातिहारिकान् तस्माद् ददाति नो तस्य कल्पते प्रतिग्रहीतुम् ॥सू० १॥
भाष्यम्-'सागारियस्स' इति । 'सागारियस्स' सागारिकस्य-शय्यातरस्य, य उपाश्रयस्याऽऽज्ञां ददाति स सागारिकः कथ्यते, तस्य 'आएसे' आदेशः यः सत्कारपुरस्सरमादिष्टः-आहूतः स आदेशः कथ्यते, आवेशोवा-य आविशति-भोजनार्थं गृहे प्रविशति स आवेशः भोजनार्थ गृहमागतः, स च प्राघूर्णकादिः 'अंतो वगडाए' अन्तर्वगडायाम्, तत्र वगडानाम-परिक्षेपः गृहमित्यर्थः, तस्य अन्तर्मध्ये-गृहमष्ये 'भुंजई' भुङ्क्ते पदार्थान् ओदनादीन् , किंविशिष्टान् ओदनादीन् भुङ्क्ते ? तत्राह-'निहिए' निष्ठितान्-निष्ठां नीतान् प्राघूर्णकाद्यर्थ निष्पादितान् इत्यर्थः 'निसिद्विए' निसृष्टान्-प्राघूर्णिकादिभ्यो दत्तान् , निष्ठितनिसृष्टयोरयं भेदः-यत् प्रथमं रन्धनक्रियायाम् , द्वितीयं तु-दानक्रियायाम , प्राघूर्णकाद्यर्थं पाचितवान् , तदर्थ दत्तान्, प्रातिहारिकान्-शय्यातरेण प्रातिहारिकरूपेण दत्तान् , शय्यातरः प्राघूर्णकादीन् वक्ति