________________
भाष्यम् उ० ८ सू०१३-१५
पतितोपलब्धोपकरणविषयो विधिः १९५ किं परिन्नाए ? से य वएज्जा-परिन्नाए तस्सेब पडिणिज्जायव्वे सिया, से य वएज्जा नो परिन्नाए तं नो अप्पणा परिभुजेज्जा नो अन्नमन्नस्स दावए एगंते बहुफासुए थंडिले परिदृवेयब्वे सिया” ॥ सू० १३ ॥
छाया --निर्ग्रन्थस्य खलु बहिर्विचारभूमि वा विहारभूमि वा निष्क्रान्तस्य यथालघुस्वकमुपकरणजातं परिभ्रष्टं स्यात् तच्च कश्चित् साधार्मिकः पश्येत् , कल्पते तस्य सागारकृतं गृहीत्वा यत्रैवाऽन्यमन्यं पश्येत् तत्रैव एवं वदेत्-इदं भो आर्य ! किं परिक्षातम् ?, स च वदेत् परिज्ञातम् , तस्यैव प्रतिनिर्यातव्यं स्यात् , स च वदेत् नो परिक्षातम् तत् नो आत्मना परिमुञ्जीत, नो अन्यस्याऽन्यस्य दद्यात् एकान्ते बहुप्रासुके स्थण्डिले परिष्ठापयितव्यं स्यात् ॥ सू० १३॥
भाष्यम् -'णिग्गंथस्स गं' निर्ग्रन्थस्य-श्रमणस्य खलु 'वियारभूमि वा' विचारभूमि वा बाह्यभूमिम् उच्चारप्रस्रवणभूमिम् , अथवा 'विहारभूमि वा' विहारभूमि वा स्वाध्यायादिभूमि प्रति 'णिक्खंतस्स' निष्क्रान्तस्य विचाराद्यर्थ बहिर्गतस्य श्रमणस्य,अवशिष्टं सर्वं पूर्ववद् व्याख्येयम् । सू० १३ ॥
पूर्व विचारभूमि विहारभूमि वा गतस्य साधोः परिभ्रष्टोपलब्धोपकरणजातविषये विधिरक्तः, सम्प्रति ग्रामानुग्रामं विहरतस्तद्विधिमाह-'णिग्गंथस्स णं गामाणुगाम' इत्यादि ।
सूत्रम् --णिग्गंथस्स णं गामाणुगामं दूइज्जमाणस्स अन्नयरे उवगरणजाए परिन्भटे सिया तं च केइ साहम्मिए पासेज्जा कप्पइ से सागारकडं गहाय दूरमेव अद्धाणं परिवहित्तए, जत्थेव अन्नमन्नं पासेज्जा तत्थेब एवं वएज्जा-इमे भे अज्जो ! किं परिन्नाए?, से य वऐज्जा परिन्नाए तस्सेव पडिणिज्जायव्वे सिया, से य वएज्जा-नो परिनाए तं नो अप्पणा परिभुजेज्जा नो अन्नमानस्स दावए, एगंते बहुफासुए थंडिळे परिद्ववेयव्ये सिया ॥ सू० १४ ॥
छाया-निर्ग्रन्थस्य खलु ग्रामानुग्राम द्रवतोऽन्यतरद् उपकरणजातं परिभ्रष्टं स्यात् तत् कश्चित् साधर्मिकः पश्येत् कल्पते तस्य सागारकृतं गृहीत्वा दूरमेवाध्वानं परिवोदुम् , यत्रैवाऽन्यमन्यं पश्येत् तत्रैव एवं वदेत्-इदं भो आर्य ! किं परिज्ञातम् ? स च वदेत् परिक्षातम् तस्यैव प्रतिनिर्यातव्यं स्यात् , स च वदेत् -नो परिक्षातम् तत् नो आत्मना परिभुजीत नो अन्यस्याऽन्यस्य दद्यात् , एकान्ते बहुप्रासुके स्थण्डिले परिष्ठापयितव्यं स्यात् । सू० १४ ॥
भाष्यम् –'णगंथस्स णं' निम्रन्थस्य खलु 'गामाणुगाम दुइज्जमाणस्स' ग्रामानुग्राम द्रवतः-एकस्माद् ग्रामाद् प्रामान्तरं प्रति विहारं कुर्वतः, 'अन्नयरे उवगरणजाए' अन्यतरत्-यत्