________________
१९४
व्यवहारसूत्रे
जातं कश्चिदन्यो मुनिर्भिक्षापानार्थ हिण्डन् तत्र गतो वा साधर्मिकः श्रमणः पश्येत् तथा इदमुपकरण न गृहस्थस्य, किन्तु कस्यचित्साधोरेव इत्येवंलक्षणपरिज्ञानेन जानीयात्, तदा 'कप्पर से सागारकडं गहाय' कल्पते 'से' तस्य उपकरणजातदर्शकस्य साधर्मिकस्य साधोः सागारकृतम् अगारसहितम् यथा-यस्येदमुपकरणजातमस्ति स यदि मिलिष्यति तदा तस्मै दास्यामीति बुद्ध्या गृहीत्वा तदनन्तरम् ' जत्थेव अन्नमन्नं पासेज्जा तत्थेव एवं वएज्जा' यत्रैव स्थानेऽन्यमन्यम् अपराऽपरं श्रमणं पश्येत् तत्रैव स्थाने एवम् - वक्ष्यमाणप्रकारेण वदेत् यं यं पश्येत् श्रमणं तं तमेव पृच्छेदित्यर्थः । किं पृच्छेत्तत्राह – 'इमे भो अज्जो ! परिन्नाए' इदमुपकरणजातम् भो आर्य ! परिज्ञातम् ? उपलब्धमुपकरणजातं निष्काश्य साधर्मिकान्तरं दर्शयित्वा पृच्छेत् - यद् भो आर्य ! परिज्ञातं - स्वसकाशात्पतितमुपकरणजातं त्वया स्मृतं किम् ? जानासि किम् इदमुपकरणजातं मम ? इत्येवं तं श्रमणं पृच्छेदित्यर्थः एवं पृष्टे सति 'से य वएज्जा' स च वदेत् 'परिन्नाए ' परिज्ञातम् - अहं जानामि एतदुपकरणजातं मदीयं पतितम् इत्येवं वदेत् तदा 'तस्सेव पडिणिज्जायन्वे सिया' तस्यैव एवं वदतः प्रतिनिर्यातव्यम् - तस्मै समर्पयितव्यं स्यात्, यो वदेद् मदीयमेतदुपकरणम् तत्तस्मै तदा दातव्यमिति भावः ।
अथ यदि 'सेय वज्जा' स च वदेत् पृष्टः सन् कथयेत्, 'नो परिन्नाए' नो परिज्ञातम् यस्योपकरणविषये भवान् पृच्छति तदहं कस्येति न जानामि, तदा तत्तस्मै न समर्पणीयम् । तर्हि किं कर्त्तव्यमित्याह- 'तं नो' इत्यादि, 'तं नो अप्पणा परिभुंजेज्जा' तदुपकरणजातं नो आत्मना स्वयं परिभुञ्जीत न व्यवहियात्, 'नो अन्नमन्नस्स दावए' न वा अन्या - न्यस्य - अन्यान्यस्मै दद्यात् तद् उपकरणजातं न वाऽन्यस्मै दातव्यमित्यर्थः । अथ - यदि उपलब्धं तदुपकरणम् अनधिकारिणे न दद्यात्, न वा स्वयमुपभुञ्जीत तदा किं कर्त्तव्यमित्याह'एगंते' इत्यादि, 'एगंते बहुफासुए थंडिले परिद्ववेयन्वे सिया' एकान्ते बहुप्रासु स्थण्डिले परिष्ठापयितव्यं स्यात्, तत्रैकान्ते - विजने - जनसंचरणरहितप्रदेशे बहुप्रासुके- द्वीन्द्रियादिजीवपरिवर्जिते स्थण्डिले - भूभागे परिष्ठापयितव्यमिति ॥ सू० १२ ॥
"
पूर्व भिक्षाचर्यायां गतस्य साधोः पतितलब्धोपकरणविषये विधिरुक्तः, सम्प्रति विचारभूमि विहारभूमिं वा गतस्य पतितोपकरणविषये विधिमाह - 'णिग्गंथस्स णं बहिया' इत्यादि ।
सूत्रम् - णिग्गंथस्स णं बहिया वियारभूमि वा विहारभूमिं वा निक्खंतस्स अहाल हुस्सए उबगरणजाए परिभद्वे सिया तं च केइ साहम्मिए पासेज्जा कप्पड़ से सागारकडे गहाय जत्थेव अन्नमन्नं पासेज्जा- वत्थेव एवं वएज्जा - इमे भो अज्जो !