SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ www भाष्यम् उ० ८ सू० १२ पतितोपलब्धोपकरणविषयो विधः १९३ विवादो न विधातव्यः, किन्तु शमतां पुरस्कृत्यैव आज्ञा याचध्वम् , एवं प्रकारेणाऽनुकूलेन वचसा स वस्तुस्वामी 'अणुलोभेयव्वे सिया' अनुलोभयितव्योऽनुकूलयितव्यः स्यात् अनुकूलवचोभिः सागारिकसंयतानां कलहः समूलमुपशमयितव्यो भवेत् , तमनुकूलेन वचसाऽनुकूलयित्वा तत्र तिष्ठेयुः संस्तारकं वा गृह्णीयुरिति ।। सू० ११ ॥ उपर्युक्तसूत्रे वसतिमाश्रित्य कथितम् , सम्प्रति यदि कश्चिद् भक्तपानादिकमानेतुं श्रावकगृहं गतो भिक्षार्थं हिण्डन् वा यदि कस्यचित्साधोः किमप्युपकरणजातं तत्र पतितं पश्येत्तदा कि कर्त्तव्यमिति तद्विधिं दर्शयितुमाह-'णिग्गथस्स णं गाहावइकुलं' इत्यादि । सूत्रम्-णिग्गथस्स णं गाहावइकुलं पिंडवायपडियाए अणुपविट्ठस्स अहालहुस्सए उपगरणजाए परिब्भटे सिया तं च केइ साहम्मिए पासेज्जा कप्पइ से सागारकंडं गहाय जत्थेव अन्नमन्नं पासेज्जा तत्थेव एवं वएज्जा-इमे भो अज्जो ! किं परिन्नाए ? से य वएज्जा-परिन्नाए तस्सेव पडिणिज्जायत्वे सिया, से य वएज्जा-नो परिन्नाए तं नो अप्पणा परिभुजेज्जा नो अन्नमन्नस्स दावए एग ते बहुफामुए थंडिले परिटबेयव्वे सिया ॥ सू० १२ ॥ छाया--निर्ग्रन्थस्य खलु गाथापतिकुलं पिण्डपातप्रतिक्षया अनुप्रविष्टस्य यथा लघुस्वकमुपकरणजातं परिभ्रष्टं स्यात् तच्च कश्चित् सार्मिकः पश्येत् कल्पते तस्य सागारकृतं गृहीत्वा यत्रैव अन्यमन्यं पश्येत् तत्रैव एवं वदेत्-इदं भो आर्य ! किं परिक्षातम् ? स च वदेत्-परिज्ञातम् तस्यैव प्रतिनिर्यातव्यं स्यात् । स च वदेत्-नो परिक्षातम् तन्नो आत्मना परिभुञ्जीत नो अन्यस्याऽन्यस्य दद्यात् एकान्ते वहुप्रासुके स्थण्डिले परिष्ठापयितव्यं स्यात् ।। सू० १२ ॥ भाष्यम्-'णिग्गथस्स णं' निर्ग्रन्थस्य खलु 'गाहावइकुलं' गाथापतिकुलम्-गृहस्थगृहम् 'पिंडवायपडियाए' पिण्डपातप्रतिज्ञया, तत्र-पिण्डम्-भक्तं पानं वा, तस्य पातप्रतिज्ञया ग्रहणेच्छया 'अणुपविट्ठस्स' अनुप्रविष्टस्य-भक्तं पानं वा आनेष्यामीत्याकारबुद्धया गृहपतिगृहं प्रविष्टस्य भिक्षाची हिण्डतो वा यस्य कस्यचित् श्रमणस्य 'अहालहुस्सए' यथालघुस्वकम् -एकान्तलघुकं जघन्यं मध्यमं वा 'उवगरणजाए' उपकरणजातम्-उपकरणविशेषः लघुपात्रादिकं वा 'परिन्भटे सिया' परिभ्रष्टं-गृहस्थगृहे मार्गे वा पतितं स्यात् । अथ च यस्य कस्यचिदुपकरणजातं पतितं तस्य मदीयमुपकरणं पतितमेवंप्रकारिका स्मृतिरपि अपगता भवेत्तदा 'तं च केइ साहम्मिए पासेज्जा' तच्च पतितं श्रावकगृहेऽन्यत्र वा उपकरण१ यहाँ पूर्वाचार्यभाष्यगा. १४७ से १५२ में साधुभाषा के विरुद्ध भाचरण लिखा है। व्य. २५
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy