SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ wwww व्यवहारसूत्र भाष्यम् –'कप्पई' कल्पते- 'णिग्गयाण वा' निर्ग्रन्थानां वा 'णिग्गयीण वा' निर्मन्थीनां वा 'पुवामेव ओग्गरं अणुन्नवत्ता पूर्व प्रथमम् वस्तुग्रहणात् प्रागेव अवग्रहम् अनुज्ञाप्य-श्रावकेभ्यः पीठफलकादिग्रहणविषयिणीमाज्ञामादाय 'तओ पच्छा' ततः पश्चात्-अनुज्ञापनानन्तरम् , 'ओगिण्हित्तए' अवग्रहीतुम्-पीठफलकादि ग्रहीतुं कल्पते इति ॥ सू० १० ॥ पूर्वमाज्ञामादाय पश्चात् पीठफलकादि ग्रहीतव्यमित्युक्तम् , सम्प्रति पीठफलकादीनामन्यपालामे किं कर्त्तव्यमिति तद्विधिमाह-'अह पुण' इत्यादि । सूत्रम्-अह पुण एवं जाणेज्जा इह खलु णिग्गथाण वा णिग्गंथीण वा णो मुलभे पाडिहारिए सेज्जासंथारए-त्ति कटु एवं ण्ह कप्पइ पुन्नामेव ओग्गह ओगिण्हित्ता तओ पज्छा अणुन्नवेत्तए, मा दुहओ अज्जो ! वइ अणुलोमेण अणुलोमियव्वे सिया ॥ सू०११॥ छाया--अथ पुनरेवं जानीयात् इह खलु निर्ग्रन्थानां वा निग्रन्थीनां वा नो सुलभं प्रातिहारिकं शय्यासंस्तारकम् , इति कृत्वा खलु कल्पते पूर्वमेव अवग्रहमवगृह्य ततः पश्चात् अनुज्ञापयितुम्, मा द्विधात आर्याः ! वदत अनुलोमेन अनुलोमयितव्यः स्यात् ॥ सू० ११॥ भाष्यम्-'अह पुण एवं जाणेज्जा' अथ यदि कदाचित् पुनः एवमेतजानीयात् , किं जानीयात्तत्राह-इहेत्यादि, 'इह खलु' इह-अत्र ग्रामादौ खलु 'णिग्गथाण वा' निर्ग्रन्थानां वा, 'णिग्गीण वा' निर्ग्रन्थीनां वा, 'नो सुलभे' नो सुलभः-न सुखेन लभ्यः-सरलतया न प्राप्तव्यः 'पाडिहारिए सेज्जासंथारए' प्रातिहारिकं शय्यासंस्तारकं पीठफलकादिकमुपकरणजातम् ऋतुबद्धकालग्राह्यं वर्षाकालग्राह्यं वा, 'त्ति कटु' इति कृत्वा-इति विज्ञाय ‘एवं ण्हं कप्पइ' एवम् अनेन कारणेन खलु 'कप्पइ' कल्पते, 'पुवामेव ओग्गहं ओगिंण्हित्ता' पूर्वमेवाऽनुज्ञापनतः प्रथममेव अवग्रह-पीठफलकस्थानकादिकमवगृह्य-गृहीत्वा 'तो पच्छा' ततः पश्चात्-अवग्रहग्रहणानन्तरम् 'अणुन्नवेत्तएं अनुज्ञापयितुम् अनुज्ञां ग्रहीतुम् । प्रथममवग्रहग्रहणं कर्तव्यम् तदनन्तरमनुज्ञापना कर्त्तव्येत्यर्थः, एवं करणे यदि तददाने साधुसंयतानां विवादो भवेतदा आचार्याः श्रमणान् प्रति बुवते-'मा दुह ओ अज्जो वई' मा हे आर्याः ! द्विधातो वदत, एक तु-अस्य शय्यासंस्तारकं वसतिं वा गृह्णीथ द्वितीयं परुषाणि भाषध्वे, हे आर्याः ! अयं गृहस्वामी एतदाज्ञयैव वस्तुजातं ग्रहीतव्यम् इति परम्पराप्राप्तो मुनीनां व्यवहारस्तस्मात् क्षमध्वम् , इत्यादिना 'अणुलोमेण' अनुलोमेन- अनुकूलेन वचसा, यदि भवद्भिः कारणवशाद् गृहस्वामिन अज्ञामन्तरेण वसत्यादिवस्तुजातस्य ग्रहणं कृतम् तदाऽनेन गृहस्वामिना सह
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy