SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ भाग्यम् ३०८ सू० ८-११ शय्यासंस्तारकावप्रहानुज्ञापनाविधिः १९१ भाष्यम् – 'नो कप्पड़' नो कल्पते 'णिग्गंथाण वा' निर्मन्थानां वा 'णिग्गंथीण बा' निर्ग्रन्थीनां वा, 'पाडिहारियं वा' प्रातिहारिकं वा कार्यानन्तरं प्रत्यावर्त्तनीयम् ' सागारियसंतियं वा' सागारिकत्सकं वा शय्यातरसम्बन्धि वा 'सेज्जासंथारगं' शय्या संस्तारकम् - पीठ - फलकादिकम् 'सव्वपणा अप्पिणित्ता' सर्वात्मना सर्वस्वत्वनिवृत्तिपूर्वकं यथा स्यात् तथा वस्तुस्वामिने समय यदि दत्तोपकरणस्य पुनरप्यावश्यकता भवेत् तदा 'दोच्चंपि द्वितीयमपि वारम् 'ओग्गहं अणणुन्नवेत्ता' अवग्रहमननुज्ञाप्य - पुनरपि आज्ञामनादाय ' अहित्तिए' अधिष्ठातुम् पुनस्तस्योपकरणस्योपभोगं कर्त्तुं न कल्पते । तर्हि कथं कल्पते ? तत्राह - 'कप्पड़' इत्यादि, 'कप्पइ अणुन्नवेत्ता' कल्पतेऽनुज्ञाप्य - आज्ञामादाय उपभोक्तुं कल्पते इति भावः ॥ सू० ८ ॥ पूर्वसूत्रे पीठफलकादिकमाश्रित्य विधिनिषेधौ कथितौ सम्प्रति - उपाश्रयमाश्रित्य ग्रहणाग्रहणयोर्विधिनिषेधौ कथयितुमाह - 'नो कप्पड़' इत्यादि । सूत्रम् - नो कप्पइ निग्गंथाण वा निग्गंथीण वा पुव्वामेव ओग्गह ओगिहित्ता त पच्छा अणुन्नवेत्तए || सू० ९ ॥ छाया--नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा पूर्वमेव अवग्रहमवगृह्य ततः पश्चात् अनुज्ञापयितुम् ॥ सू० ९ ॥ - भाष्यम् – 'नो कप्पर' नो कल्पते 'णिग्गंथाण वा' निर्ग्रन्थानां वा 'णिग्गंथीण वा ' निर्ग्रन्थीनां वा ‘पुव्वामेव' पूर्वमेव - आज्ञा ग्रहणात्पूर्वकाल एव 'ओग्गहं ओगिण्हित्ता' अवग्रहमवगृह्य-पीटफलकादिकं गृहीत्वा 'तओ पच्छा' ततः पश्चात् तदनन्तरम् ' अणुन्नवेत्तए' अनुज्ञापयितुम् - आज्ञां ग्रहीतुं न कल्पते । अयं भावः - पूर्वं वस्तुस्वामिसकाशात् पीठफलकादि प्राप्यर्थम् अनुज्ञा ग्रहोतव्या । आज्ञां विनैव किमपि वस्तुजातं गृहीत्वा तदनन्तरं तद्विषये आज्ञां गृह्णीयात्तन्न कल्पते, अदत्तादान दोषापत्तेः, एवं करणे श्रावकसंयतयोः कलहसम्भवोऽपि ॥ सू० ९ ॥ पूर्वं वस्तु स्वायत्तीकृत्य पश्चादनुज्ञापनं निषिद्धम्, सम्प्रति तद्विपर्यये सूत्रमाह - ' कप्पड़' इत्यादि । सूत्रम् - कप्पर णिग्गंथाण वा णिग्गंथीण वा पुव्वामेव ओग्गह अणुन्नवेत्ता aa पच्छा ओगoिहत्तए | सू० १० ॥ छाया – कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा पूर्वमेवाऽवग्रहमनुज्ञाप्य ततः पश्चाद् अवग्रहीतुम् ॥ सू० १० ॥
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy