SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ व्यवहारस्त्रे नीतम् , 'सागारियसंतियं वा' सागारिकसत्कं वा-शय्यातरसम्बन्धि वा यदुपाश्रये स्थितं, यद् अन्यसत्कं वा तस्य शय्यातरस्य तदन्यस्य वा संबन्धि यत् 'सेज्जासंथारग' शय्यासंस्तारकम् पीठफलकादिकमुपकरणजातं तद् यदि पूर्णे मासे बहिरन्यत्र गन्तुकामो मुनिर्यत् शय्यातरादिदत्तं शय्यातरादिसंबन्धि वा तत्र पूर्वीपाश्रये स्थितं शय्यातरादिसंस्तारकमन्यत्राऽलामसंभवे बहिर्नेतुमिच्छेत्तदा पूर्वमवग्रहोऽनुज्ञापितोऽपि 'दोच्चंपि' द्वितीयमपि वारं पुनरपीत्यर्थः 'ओग्गह अणणुन्नवेत्ता' अवग्रहमननुज्ञाप्य पीठफलकादिस्वामिन आज्ञा न गृहीत्वा 'बहिया नीहरित्तए' बहिामान्तरादौ पोठफलकादि निर्हर्तुम्-नेतुं न कल्पते इति सम्बन्धः । अयं भावः-कोऽपि साधुः साध्वी वा पूर्णे मासेऽन्यत्र गन्तुमिच्छेत्तदा-अन्यत्र तदलाभसम्भवे तस्य तस्या वा शय्यातराऽन्यश्रावकसम्बन्धिपीठफलकादेः पूर्वमाज्ञा गृहीताऽपि बहिर्नयनसमये पुनर्द्वितीयवारमपि पीठफकादिस्वामिन आज्ञामन्तरेण वसतेर्बहिस्तादृशमुपकरणजातं नीत्वा गन्तुं न कल्पते इति ॥ सू० ५ ॥ ___पूर्व पूर्वगृहीतशय्यासंस्तारकस्याऽऽज्ञामन्तरेणाऽन्यत्र नयनं निषिद्धम् , सम्प्रति अन्यत्र तदलाभे किं कर्त्तव्यमिति तद्विधिमाह - 'कप्पई' इत्यादि । सूत्रम्-कप्पइ णिग्गंथाण वा णिग्गंथीण वा पाडिहारियं वा सागारियसंतियं वा सेज्जासंथारगं दोच्चंपि ओग्गहं अणुन्नवेत्ता बहिया नीहरित्तए ॥ सू० ७ ॥ छाया- कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा प्रातिहारिकं वा सागारिकसत्कं वा शय्यासंस्तारकं द्वितीयमपि अवग्रहमनुज्ञाप्य बहिनिहर्तुम् ॥ सू० ७॥ भाष्यम्-अत्रास्मिन् सूत्रे पूर्वोक्तं शय्यासंस्तारकमाज्ञामादाय बहिर्नेतुं कल्पते, एतावानेव विशेषः, शेवं पूर्ववदेव ॥ सू० ७ ॥ शश्यासंस्तारकस्य समर्पणानन्तरं तस्य पुनर्ग्रहणे निषेधमाह-'नो कप्पई' इत्यादि । सूत्रम् -- नो कप्पइ णिग्गंथाण वा णिग्गथीण वा पाडिहारियं बा सागारियसंतियं वा सेज्जासंथारगं सव्वप्पणा अप्पिणित्ता दोच्चंपि ओग्गहं 'अणणुन्नवेत्ता अहिद्वित्तए, कप्पइ अणुनवेत्ता ॥ सू० ८॥ ___ छाया--नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा प्रातिहारिकं वा सागारिकसत्कवा शय्यासंस्तारकं सर्वात्मना-अर्पयित्वा, द्वितीयमपि वारम् अवग्रहम ननुशाप्या. ऽधिष्ठातुम् , कल्पतेऽनुज्ञाप्य ॥ सू० ८॥
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy