________________
भाष्यम् उ० ८ ० ५--७
स्थविराणामुपकरणप्रकारविधि १८९
खेलसम्बन्धिपात्रम् 'लट्ठियं वा यष्टिका - र्सार्द्धद्विहस्तप्रमाणा यदालम्बनेन गम्यते ताम् 'भिसे वा' 'भिस' इति मुनीनामुपवेशनपट्टिका, या माश्रित्यो पविशति ताम्, 'चेले वा' चेलं वा-चेलं - देहाच्छादनवस्त्रं 'पछेवडी' 'चादर' इति प्रसिद्धम्, 'चेलचिलिमिलिं वा' वस्त्रनिर्मितां जवनिकां 'चम्मे वा' चर्म वा तत्र चर्म - सूचिकया वस्त्रसन्धानसमये अंगुलीरक्षार्थं चर्मनिर्मिताङ्गुलीयकं वा, 'चम्मको सेवा' चर्मकोषं चर्मकुत्थलिकां या कण्टकोद्धरणकण्टकरक्षणार्थं धियते ताम्, 'चम्मपरिच्छेयणए वा' चर्मपरिच्छेदनकं वा चर्मवेष्ठनकम् एतानि वस्तूनि 'अविरहिए ओवासे' अविरहितेऽवकाशे स्थापयित्वा तत्र अविरहिते - जनविरहवर्जिते यत्र जना गृहपतिर्वा वर्त्तते तत्र निरापदि अवकाशे प्रदेशे 'ठवेत्ता' स्थापयित्वा 'गाहावइकुलं' गाथापतिकुलं गृहस्थगृहम् 'भत्ताए वा पाणाए वा' भक्ताय वा पानाय वा भक्तपानादिप्राप्तये 'पविसित्तए वा' प्रवेष्टुं वा-गाथापतिगृहे प्रवेशं कर्तुम् 'निक्खमित्तए वा' निष्क्रमितुं वा प्रविष्टानां प्रत्यावर्त्तितुं वा कल्पते इति पूर्वेण सम्बन्धः । स्थविरादिकारणेन कल्प्यत्वेन प्रतिपादितानि दण्डादिवस्तूनि अशून्ये गृहादौ स्थापयित्वा भिक्षाचर्यार्थे गृहस्थगृहे गमनं कल्पते न तु तानि गृहीत्वेत्यर्थः । भिक्षातः पूर्वं यद् यद् वस्तु दण्डादिकं गृहस्थगृहे स्थापितं तत् पुनर्गृहस्थाज्ञामादायैव उपभोक्तुं कल्पते इत्याह-- ' कप्पर' इत्यादि, 'कप्पर ह' कल्पते खलु 'संनियहचाराणं' संनिवृत्त चाराणाम् - संनिवृत्तः - प्रतिनिवृत्तः चारः - चरणं - भ्रमणं येषां ते संनिवृत्तचारास्तेषाम् - भिक्षाचर्यातः प्रत्यागतानामित्यर्थः स्थविराणाम् ' दोच्चंपि' प्रथमं तु आज्ञया गृहीतान्येवेति प्रथमतः 'दोच्चपि' इति कथितम्, द्वितीयमपि वारम् 'ओग्गह' अवग्रहम्, 'अणुन्नवेत्ता' अनुज्ञाप्य - अनुज्ञामादायेत्यर्थः ' परिहारं' परिहारम् - उपभोग्यं वस्तुजातम् 'परिहरित्तए' परिहर्तुम्धारणेन परिभोगेन चोपभोक्तुं कल्पते, स्वस्य स्थापितस्यापि वस्तुनः पुनर्ब्रहणसमये श्रमणै गृहस्थाज्ञा अनुज्ञातव्येति भावः । सू० ५ ॥
"
पूर्वं स्थविरानधिकृत्योपकरणग्रहणस्थापनविधिरुक्तः, साम्प्रतमुपाश्रय स्थितशय्यासंस्तारकस्यान्यत्र नयने निषेधमाह - 'नो कप्पर णिग्ग' याण वा' इत्यादि ।
सूत्रम् - नो कप्पर णिग्गंथाण का णिग्गंथीण वा पाडिहारियं वा सागारियसंतियं वा सेज्जासंथारगं दोच्चंपि ओग्गहं अणणुन्नवेत्ता बहिया नीहरित्तए । सू० ६ ॥
छाया - नो कल्पते निर्मन्थानां वा निर्ग्रन्थीनां वा प्रातिहारिकं वा सागारिकसत्कं वा शय्यासंस्तारकं द्वितायमपि वारमननुज्ञाप्य बहिर्निर्हर्तुम् ॥ सू० ६ ॥
भाष्यम् – 'नो कप्पड़' नो कल्पते 'णिग्गंथाण वा णिग्गंथीण वा' निर्ग्रन्थानां वा निर्ग्रन्थीनां वा 'पाडिहारियं वा' प्रातिहारिकं वा अल्पकालायोपभोगार्थं गृहस्थगृहादा