________________
व्यवहारसूत्रे
"
भाष्यम् – 'से य' स च श्रमणः 'अहालहुस्सगं' यथालघुस्वकम् इत्यादि सर्वं द्वितीय सूत्रवदेव व्याख्येम्, विशेषोऽत्रायम् - यत्पूर्वसूत्रद्वये त्र्यहं यावद वहनं प्रतिपादितम् अत्र तु - 'एगाई वा दुयाहं वा तियाहं वा चउयाह वा पंचाहं वा' इति एकदिवसादारभ्य पञ्चदिवसान् यावत्, पञ्च विश्रामान् यावत् इति कथितम्, पुनश्चायं विशेषः - ' दूरमवि अद्धाणं परिवहित्तए' पञ्चविश्रामपर्यन्तं दूरमपि अध्वानं परिवोढुं शक्नोति चेत् तं गवेषयेदिति । अयं भावः - वृद्धत्वेन पञ्चविश्रामान् कृत्वा नेतुं कल्पते किन्तु ते पञ्च विश्रामा अपि कोशद्वये एव भवितुमर्हन्ति न तु तदुपरि नेतुं कल्पते, अथवा शरीरदौर्बल्याद् द्वित्रादिदिवसानपि मार्गे स्थित्वा स्थित्वा गम्यते किन्तु तेन मार्गेण क्रोशद्वयपरिमितेनैव भाव्यम्, एषा शास्त्रमर्यादेति । किमर्थमित्याह'एस मे वुड्ढावासेसु भविस्सई' एतत् शय्यासंस्तारकं मे वृद्धावासेषु उपयोग भविष्यतीति ॥ सू० ४ ॥
૧૦૮
पूर्वं शय्या संस्तारकस्य मार्गवहनसूत्रं प्रोक्तम्, मार्गवहनप्रसङ्गात् स्थविरभावेनाऽसहायानां स्थविराणां दण्डकादि कल्पते इति भिक्षाचर्यायां तद्ग्रहणस्थापनविधिमाह-- 'थेराणं' इत्यादि ।
सूत्रम् - थेराण र भूमिपत्ताणं कप्पर दंडए वा भंडए वा छत्तए वा मत्त वा लट्ठियं वा भिसे वा चेले वा चेलचिलिमिलि वा चम्मे वा चम्मकोसे वा चम्मपलिच्छेयण वा अविरहिए ओवासे ठवेत्ता गाहावइकुलं भत्ताए वा पाणाए वा पविसित्तए वा निक्खमित्त वा, कप्पर ह संनियट्टचाराणं दोच्चंपि ओग्गह अणुन्नवेत्ता परिहारं परिहरिए । सू० ५ ॥
छाया - स्थविराणां स्थविरभूमिप्राप्तानां कल्पते दण्डकं वा भाण्डकं वा छत्रकं वा मात्रकं वा यष्टिकां वा भिसं वा चेलं वा चेलचिलिमिलीं वा चर्म वा चर्मकोषं वा चर्मपरिच्छेदनकं वा अविरहिते अवकाशे स्थापयित्वा गाथापतिकुलं भक्ताय वा पानाय वा प्रवेष्टुं वा निष्क्रमितुं वा, कल्पते खलु संनिवृत्तचाराणां द्वितीयमपि अवग्रहमनुशाप्य परिहारं परिहर्तुम् ॥ सू० ५ ॥
भाष्यम् – 'थेराणं' स्थविराणां वृद्धानाम् - जङ्घाबलक्षीणानाम् - जरसा जीर्णानाम् 'थेरभूमिपत्ताणं' स्थविरभूमिप्राप्तानाम् दीक्षा - श्रुत-वयोभिर्वृद्धानां ज्वरादिकारणेन गन्तुमशक्नुवतां वा 'कप्पड़' कल्पते 'दंडए वा' दण्डकं - रजोहरणदण्डकं वा 'भंडए वा' भाण्डकं वा - अनेकविध - मुपकरणजातं मृत्पात्रं वा 'छत्तए वा' छत्रकं वा मस्तकाच्छादनकं वस्त्रम् नतु लोकप्रसिद्धं छत्रं तस्याऽनाचीर्णरूपत्वेन दशवैकालिके निषेधात् 'मत्तए वा' मात्रकं वा तत्र मात्रकमुच्चारप्रस्रवण
"