SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ व्यवहारसूत्रे किमपि प्रकारकमुपकरणजातं-वस्त्रपात्रादिकम् 'परिभट्टे सिया' परिभ्रष्टं-पतितं-विस्मृतं वा स्यात् 'तं च केइ साहम्मिए पासेज्जा' तच्च पतितमुपकरणजातं यः कोऽपि साधर्मिकः श्रमणः पश्येत् तदा 'कप्पइ से सागारकडं गहाय' कल्पते तस्य सागारकृतं गृहीत्वा 'दूरमेव अद्धाणं परिवहित्तए' दूरमेवाध्वानं परिवोढुम्-दूरमार्गपर्यन्तं तस्योपकरणस्य वहनं कर्तुम् , तदनन्तरम् 'जत्थेव अन्नमन्नं पासेज्जा' यत्रैव मार्गेऽन्यमन्यं-साधर्मिकान्तरं पश्येत्, इत्यादि सर्व द्वादशसूत्रवद् व्याख्येयम् ॥ सू० १४ ॥ पूर्व प्रामानुग्राम विहरतो मुनेः परिभ्रष्टोपलब्धोपकरणजातविषये विधिरक्तः, सम्प्रति निम्रन्थनिर्ग्रन्थीभिरन्योऽन्यस्य गृहीताधिकपात्रादि यमुद्दिश्य गृहीतं तस्याऽऽज्ञामन्तरेणाऽन्यस्मै न दातव्यमिति तद्विधिमाह-'कप्पइ णिग्गंथाण वा' इत्यादि । सूत्रम्-कप्पइ णिगंथाण वा, णिग्गंथीण वा अइरेगं पडिग्गई अनमन्नस्स अट्ठाए दूरमवि अद्धाणं परिवहित्तए वा धारित्तए वा परिग्गहित्तए वा, सो वा णं धारेस्सइ अहं वा णं धारेस्सामि अन्नो वा णं धारेस्सइ, नो से कप्पइ तं अणापुच्छिय अणामंतिय अन्नमन्नेसि दाउं वा, अणुप्पदाउं वा, कप्पइ से तं आपुच्छिय आमंतिय अन्नमन्नेसि दाउं वा अणुप्पदाउं वा ॥ सू० १५ ॥ छाया-कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा अतिरेकं प्रतिग्रहम् ( पतद्ग्रहम् ) अन्योन्यस्यार्थाय दूरमप्यध्वानं परिवोदुवा धारयितुं वा परिग्रहीतुं वा, स वा तद् धारयिष्यति, अहं वा तद् धारयिष्यामि, अन्यो वा तद् धारयिष्यति, नो तस्य कल्पते तमनापृच्छय, अनामन्त्र्य अन्यान्येषां दातुं वा, अनुप्रदातुं वा, कल्पते तमापृच्छय आमन्त्र्य अन्यान्येषां दातुं वा अनुप्रदातुं वा ॥सू. १५ ॥ भाष्यम्-'कप्पई' कल्पते 'निग्गथाणं वा' निम्रन्थानां वा 'णिग्गंथीण वा' निम्रन्थीनां वा 'अइरेग पडिग्गह" अति रेकं प्रतिग्रहं-पतद्ग्रहं वा, उपलक्षणाद् वस्त्रादिकं वा, तत्रातिरेकं नाम यावत्प्रमाणकं वस्त्र-पावाद्युपकरणं शास्त्रसंमतं ततोऽधिकं यत् तद् अतिरेक प्रतिग्रहम्, 'अन्नमन्नस्स अट्ठाए' अन्यान्यस्य अर्थाय-प्रयोजनाय, तत्राऽन्यस्याऽन्यस्यममुकाऽमुकस्य श्रमणाऽन्तरस्य प्रयोजनमुद्दिश्य, तत्र-अन्यस्याऽर्थाय-इदमविशेषितं सामान्यवचनम्, तेनान्यस्यान्यस्येति अमुकस्याऽमुकस्य साधर्मिकस्याऽर्थाय प्रयोजनाय गृहीतं नतु समुच्चयरूपेण गृहीतमित्यों बोध्यः, तत् 'दरमवि अद्धाणं परिवहित्तए' दूरमपि अध्वानं-मार्ग परिवोढुम्गृहीत्वा दूरमपि मार्ग गन्तुम् , 'धारेत्तए वा परिग्गहित्तए वा' धारयितुं वा परिग्रहीतुं वा, कल्पते अन्यस्य श्रमणस्य अन्यस्याः श्रमण्या वा कृते प्रमाणादधिकमपि वस्त्रपात्रादिकं परिवोढुम्
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy